2023-10-23 15:59:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२५७
 
शुक्तिरजतस्थले च रजतं न सत् । भ्रान्तिबाधयोरसंभवात् । नाप्यसत् ।

ख्यातिबाधयोरसंभवात् । बाधस्य प्रतियोगि पूर्वकत्वेनासतस्तदसंभवात् ।

किंतु शुक्त्यज्ञानपरिणामभूतं सदसयामनिर्वचनीयमपूर्व रजतमुत्पद्यते ।

तदेव च तत्र रजतज्ञानविषयः । तदुक्तम् सत्त्वे न भ्रान्तिबाधौ स्तो

नसत्त्वे ख्यातिबाधने । सदसयामनिर्वाच्या विद्याविद्यैः सह भ्रमः ॥

इति । आविद्यैरविद्यापरिणामभूतै रजतादिभिः । प्रपञ्चस्यापि अनाद्य-

विद्यापरिणामभूतत्वादनिर्वचनीयत्वमेवेति । रामानुजीयास्तु सत्ख्यातिमाहुः।

सत्ख्यातिर्नाम ज्ञानविषयस्य सत्यत्वम् । तर्हि भ्रमत्वं कथमिति चेद्विषय-

व्यवहारबाधाद्भमत्वम् । तदुपपादयामः । पञ्चीकरणप्रक्रियया पृथिव्या-

दिषु सर्वत्र सर्वभूतानां विद्यमानत्वम् । अत एव शुक्तिकादौ रजतांशस्य

व्यवहार इति तज्ज्ञानं भ्रमः । विस्तरस्तु यतीन्द्रमतदीपिकायां तट्टीकायां

विद्यमानत्वाज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजतांशस्य स्वल्पत्वात्तत्र न

च द्रष्टव्यः ( पृ० ९ - १२) । द्वैतवादिनां श्रीमध्वाचार्याणां सिद्धान्ते

तुत शुक्तिकादौ प्रतीतस्य रजतादेः असदेवेदं रजतं प्रत्यभात्

इत्यादिना बाघोत्तरकालमसत्त्वानुभवादसता च संबन्धायोगात् न शुक्ति

रूप्यादिना क्संबन्धः । किंतु शुक्तिकादिसंनिकृष्टमेवेन्द्रियं दोषवशा-

च्छुक्तिमत्यन्ता सद्जतात्मनावगाहते इति ( मध्वविजयटीका स० ५
 
-
 
-
 

लो० ६) ।
२ प्रशंसा । ३ प्रसिद्धिः । ४ कथनम् इति

काव्यज्ञा आहुः ।
 

 
<
.
 
>
 
<
गण: - >
चतुर्थी तिथि: ( पु० चि० पृ० ८४ ) ।

 
<
गणेश:- >
महेश्वरः ( पु० चि० पृ० १२६)।

 
<
गतिः - >
१ गमनम् । यथा सूत्रस्येवास्ति मे गतिः ( रघु०१४ ) प्रण-

भिन्नत्वे सति उत्तरदेशसंयोगानुकूलक्रियात्वम् ( राम० ११० ३४ ) ।

यातिभूमिमगमद्गतिभिः (माघः ) इत्यादौ । अत्रार्थे गतित्वं चोत्क्षेपणादि-

ज्ञानम् । यथा इत्यर्थो गम्यते मया इत्यादौ । अत्रार्थे ये गत्यर्थका
 

 

३३ न्या० को०
 
-