This page has not been fully proofread.

न्यायकोशः ।
 
२५७
 
शुक्तिरजतस्थले च रजतं न सत् । भ्रान्तिबाधयोरसंभवात् । नाप्यसत् ।
ख्यातिबाधयोरसंभवात् । बाधस्य प्रतियोगि पूर्वकत्वेनासतस्तदसंभवात् ।
किंतु शुक्त्यज्ञानपरिणामभूतं सदसयामनिर्वचनीयमपूर्व रजतमुत्पद्यते ।
तदेव च तत्र रजतज्ञानविषयः । तदुक्तम् सत्त्वे न भ्रान्तिबाधौ स्तो
नसत्त्वे ख्यातिबाधने । सदसयामनिर्वाच्या विद्याविद्यैः सह भ्रमः ॥
इति । आविद्यैरविद्यापरिणामभूतै रजतादिभिः । प्रपञ्चस्यापि अनाद्य-
विद्यापरिणामभूतत्वादनिर्वचनीयत्वमेवेति । रामानुजीयास्तु सत्ख्यातिमाहुः।
सत्ख्यातिर्नाम ज्ञानविषयस्य सत्यत्वम् । तर्हि भ्रमत्वं कथमिति चेद्विषय-
व्यवहारबाधाद्भमत्वम् । तदुपपादयामः । पञ्चीकरणप्रक्रियया पृथिव्या-
दिषु सर्वत्र सर्वभूतानां विद्यमानत्वम् । अत एव शुक्तिकादौ रजतांशस्य
• व्यवहार इति तज्ज्ञानं भ्रमः । विस्तरस्तु यतीन्द्रमतदीपिकायां तट्टीकायां
विद्यमानत्वाज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजतांशस्य स्वल्पत्वात्तत्र न
च द्रष्टव्यः ( पृ० ९ - १२) । द्वैतवादिनां श्रीमध्वाचार्याणां सिद्धान्ते
तुत शुक्तिकादौ प्रतीतस्य रजतादेः असदेवेदं रजतं प्रत्यभात्
इत्यादिना बाघोत्तरकालमसत्त्वानुभवादसता च संबन्धायोगात् न शुक्ति
रूप्यादिना क्संबन्धः । किंतु शुक्तिकादिसंनिकृष्टमेवेन्द्रियं दोषवशा-
च्छुक्तिमत्यन्ता सद्जतात्मनावगाहते इति ( मध्वविजयटीका स० ५
 
-
 
-
 
लो० ६) ।
२ प्रशंसा । ३ प्रसिद्धिः । ४ कथनम् इति
काव्यज्ञा आहुः ।
 
ग.
 
गण: - चतुर्थी तिथि: ( पु० चि० पृ० ८४ ) ।
गणेश:- महेश्वरः ( पु० चि० पृ० १२६)।
गतिः - १ गमनम् । यथा सूत्रस्येवास्ति मे गतिः ( रघु०१४ ) प्रण-
• भिन्नत्वे सति उत्तरदेशसंयोगानुकूलक्रियात्वम् ( राम० ११० ३४ ) ।
यातिभूमिमगमद्गतिभिः (माघः ) इत्यादौ । अत्रार्थे गतित्वं चोत्क्षेपणादि-
• ज्ञानम् । यथा इत्यर्थो गम्यते मया इत्यादौ । अत्रार्थे ये गत्यर्थका
 

 
३३ न्या० को०
 
-