This page has not been fully proofread.

न्यायकोशः ।
 
२५५
 
भवेज्जन्तुः
 
पङ्गुः सक्नोर्द्वयोर्वधात् ॥ इति । तदर्थश्च सक्नः कट्यादि-
गुल्फस्य कण्डरां कक्षास्नायुम् आक्षिपेत् गमनादौ कम्पयेत् वधात्
गमनादिक्रियाघातात् इति । तथा च एकपादविकलत्वे खज: द्विपाद -
विकलत्वे परिति भेदः । तस्यैव भेदः कलापखञ्ज : इति । तल्लक्षणं
च कम्पते गमनारम्मे खञ्जन्निव च लक्ष्यते । कपालखअं तं विद्यान्मुक्त-
संधिप्रबन्धनम् ॥ इति ( वाच० ) ।
 
खण्डतिथिः—उदयस्था तिथिर्या हि न भवेद्दिनमध्यगा । सा खण्डा न
व्रतानां स्यात्तत्रारम्भसमापनम् ॥ ( पु० चि० पृ० ५० ) ।
 
NEDAL
 
खण्डप्रलयः - ( प्रलय ) [क] कार्यद्रव्यानधिकरणकार्याधिकरण-
काल: (न्या० म० ४) (दि० ४) । अयमेवावान्तरप्रलयः इत्युच्यते ।
खण्डप्रलयाङ्गीकारे प्रमाणं वेदः धाता यथापूर्वमकल्पयत् इति ( त० दी०
१ पृ० १० ) (त० प्र० ख० ४ पृ० १८) । खण्ड प्रलय प्रकारस्तु
दिव्यं द्वादशसाहस्रं यदेतद्युगमुच्यते । तदेकसप्ततिगुणं मन्वन्तर-
मिहोच्यते ॥ एतच्चतुर्दशगुणमहर्ब्राह्ममिहोच्यते ( हरिवंशे अध्या०
१९८-९९९) इत्यादिनोक्तः । स च तस्मादेवावगन्तव्यः । [ख] जन्य-
द्रव्यानधिकरणद्रव्यप्रागभावाधिकरणकालः । [ग] सर्वकार्बद्रव्यध्वंसः
( त० दी० १पृ०१० ) । यथा युगप्रलयः । [घ] चतुर्युगसहस्ररूप-
• ब्राह्मदिनावसाने भूम्यादिखण्डलयाधारः कालविशेषः (वाच० ) । तदुक्तं
सिद्धान्तशिरोमणौ वृद्धिर्विधेरहि भुवः समन्तात् स्याद्योजनं भूभवभूत-
पूर्व: । ब्राह्मे लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेखिलायाः ॥ इति ।
खर्विका-संमिश्रा या चतुर्दश्या अमावास्या भवेत्कचित् । खर्विकां तां
विदुः केचिद्गताध्यामिति चापरे ॥ ( पु० चि० पृ० ३३१ ) ।
खलेवाली—खले बलीवर्दबन्धनाय निखातो मेढिः खलेवाली ( जै० न्या०
 
अ० १० पा० १ अधि० ६) ।
 
ख्याति:-१ ज्ञानम् ( मलि० मा० टी० ४/५५ ) । यथा ख्यातिं च
• सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम्