This page has not been fully proofread.

२५३
 
न्यायकोशः ।
 
[ज ] प्रशस्तमुहूर्त: नाडीद्वयात्मको मुहूर्तरूपः कालांशश्च इति मौहू-
र्तिका आहुः । २ उत्सवः । यथा गार्हस्थ्यमुचितं त्वेकं शूद्रस्य
क्षणमाचरेत् (ब्रह्मपु०) इत्यादौ । ३ मध्यभागः । ४ पराधीनत्वम्
इति काव्यज्ञा आहुः ( वाच० ) ।
 
क्षणिकत्वम् - तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् (मु० १ पृ० ५९ ) ।
यथा अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ( भा०प० श्लो १७ )
इत्यादौ । योग्यविभुविशेषगुणानां ज्ञानादीनां अपेक्षाबुद्धिव्यतिरिक्तानां
क्षणिकत्वम् (मु० १ पृ० ५९ ) । अत्र च योग्यविभुविशेषगुणानां
खोत्तरवृत्तिविशेषगुणनाश्यत्वम् इति नियमोनुसंधेयः । अत्र स्वं नाश्यम्
तदुत्तरवृत्तिः तद्वितीयक्षणवृत्तिरित्यर्थः ( दि० १ पृ० ५९ ) । तथा
च प्रथमक्षण उत्पद्यते द्वितीयक्षणे तिष्ठति तृतीयक्षणे नश्यति इति
 
• तात्पर्यम् । अथवा स्वाधिकरण समयप्रागभावाधिकरणक्षणानुत्पत्तिकत्वे
 
• सति कादाचित्कत्वम् उत्पत्तिमत्त्वं वा। स्वाधिकरण समय प्रागभावाधिकरण-
क्षणावृत्तित्वम् इति ज्यायः (आत्मत• शिरो० ) ( वाच० ) । बौद्धास्तु
• द्वितीयक्षणोत्पन्नध्वंस प्रतियोगित्वम् क्षणिकत्वम् इत्याहुः । तन्मते सृष
भावानां क्षणिकत्वम् । तच्च नीलादिक्षणानां सत्वेनानुमातव्यम् ।
• यत् सत् तत् क्षणिकम् यथा जलधरपटलम् सन्तश्चामी भावाः इति । अत्र
सत्त्वं चार्थक्रियाकारित्वम् इति ज्ञेयम् ( सर्व० पृ० २६ बौद्ध० ) "
क्षयः - (मासः ) सूर्यसंक्रान्तिद्वययुतो मासः । असंक्रान्तमासोधिमासः
स्फुट: स्यात् द्विसंक्रान्तमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये
• नान्यतः स्यात् तदा वर्षमध्येधिमासंद्वयं च ॥ ( पुरु० चि० पृ० १४ ) ।
क्षरः -क्षरतीति क्षरः विनाशिपदार्थः । क्षरः सर्वाणि भूतानि ( गीता
 
१५/१६) ।
 
क्षरणम्- द्रवद्रव्य विभागः । यथा पयः क्षरति गोस्तनात् इत्यादौ क्षरतेरर्थः ।
क्षायिकः - कर्मणः क्षये सति जायमानो भावः क्षायिकः ( सर्व० सं०
 
पृ० ६८ आई० ) ।
 
-