2023-10-23 15:47:08 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२५२
 
न्यायकोशः ।
 
अत्रोक्तं भावप्रकाशे कफस्यैतानि नामानि केदनश्वावलम्बनः । रसनः

स्नेहनश्चापि श्लेष्मणः स्थानभेदतः ॥ इति ( वाच ० ) । [ख] क्षरणम् ।

स्वेद इति यावत् ( दि० १ पृ० ७० ) । [ग] जलविकार विशेषः ।

यथा तदञ्जनक्लेदसमाकुलाक्षम् ( रघु० ७१२७) इत्यादौ ( वाच० ) ।

 
<
क्लेशः - >
क्लेशाः पुनः पञ्चधा प्रसिद्धा अविद्यास्मितारागद्वेषाभिनिवेशाः (पात
'

सू० २१३) ( सर्व० सं० पृ० ३५८ पात ० ) । सांसारिक विविधदु: खोपहा-

रहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः ( सर्व० सं० पृ० ३६५ पात० ) ।

 
<
क्षण:>
१ (कालः ) [क ] वर्तमानार्थग्राहित्वेन स्वोत्पत्त्याश्रयः क्षणः ।

( मू० म० १ ) । तल्लक्षणं तु क्षणत्वमेव । तच्च स्ववृत्तिध्वंसप्रतियोग्य
 
●●

नाधारत्वम् स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावद्धंसविशिष्ट समयत्वम्

पूर्ववर्तियावत्पदार्थविशिष्टसमयत्वं वा । स्वपूर्वत्वं च स्वाधिकरणयावत्काल

स्ववृत्तियावङ्कंसविशिष्टसमयत्वम् स्ववृत्तियावदभाव विशिष्टसमयत्वम् स्वस्व

वृत्तिध्वंसप्रतियोगित्वम् । जन्यमात्रस्य कालोपाधित्वाददोषः (दीधि० २)
 

( प० म० ) । अथवा स्ववृत्तियावद्धंस विशिष्टत्वम् ( ग०
 
सार्वभौम
 

पक्षता०)। [ख] स्ववृत्तिध्वंसप्रतियोगिकालावृत्तित्वविशिष्टस्ववृत्तित्ववान्

अत्र स्वपदद्वयम् यत्समयवृत्तित्वमुत्पत्तित्वेनाभिमतं तत्समय व्यक्तिपरम् ।

कालावृत्तित्वं च तादृशकालवृत्तित्वसामान्याभावः ( राम० १ काल०)

पृ० ९२ ) । इदं च महाप्रलये क्षणव्यवहारो नास्ति इत्यभिप्रेत्योक्तर/

[ग] स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावङ्कंसविशिष्टसमयः ।

क्षणो महाप्रलयव्यवहारविषयो भवतीति ज्ञेयम् । घ ] स्वाधेयपदार्थ

समयः चरमध्वंस एवेति भावः ( दि० १ काल० पृ० ९२ ) / अ
 
तादृश
 

प्रागभावानाधारः समयः ( आत्मत
 
शिरोम ० ) । [ङ ] निमेष

क्रियावच्छिन्नकालस्य चतुर्थभागः क्षण: ( चि० ४) । यथा क्षणावि

स्यादुपाधितः ( भा० प० श्लो० ४७) इत्यादौ । च ] त्रिंशत्कला

कालांशः । यथा स्थिताः क्षणं पक्ष्मसु ताडिताधराः ( कुमा० ५/२/

इत्यादौ । [छ ] अवसरः । यथा स्थानं नास्ति क्षणो नास्ति नासि

प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ इत्यादी