न्यायकोशः /305
This page has not been fully proofread.
न्यायकोशः ।
२५१
क्रोडपत्रम् –[ क ] त्रुटितप्रन्थस्य परिपूरणाय ग्रन्थस्थपत्रयोर्मध्ये चिह्न-
विशेषेण लिखित्वा स्थापितं पत्रम् ( वाच ० ) [ ख ] न्यायादिशास्त्र-
ग्रन्थस्थलक्षणादिपरिष्काराणामूहापोहाभ्यां शङ्कोत्तररूपेण खण्डनमण्डन-
व्यवस्थापनपत्रम् । यथा न्यायशास्त्रे चन्द्रनारायणीदुलालीकालीशाङ्करी-
पत्राणि क्रोडपत्राणि सन्ति ।
क्रोधः - १ (दोषः ) नेत्रलौहित्यादिहेतुर्दोषविशेषः (गौ० दृ० ४।१।३) ।
ज्ञानविशेषो वा । यथा पुत्राय क्रुद्ध्यतीत्यादौ धात्वर्थः । अत्र क्रुधद्रुहेर्ष्या-
सूयार्थानां यं प्रति कोपः (पा० ११४ । ३७) इति सूत्रेण कर्मणः
संप्रदानसंज्ञा । तथा च अत्र विषयित्वं चतुर्थ्यर्थः । तस्य कोपेन्वयः ।
एवम् पुष्पेभ्यः स्पृहयतीत्यादावप्यन्वयो बोध्यः ( ग० व्यु० का० ४
पृ० ९६ ) । शाब्दिकास्तु वधायनुकूलव्यापारजनकश्चित्तवृत्तिविशेषः ।
यथा हरये क्रुभ्यतीत्यादौ क्रुघेरर्थः । क्रोधश्च कोपमूलकः । अत्र हरि-
संप्रदानकः क्रोधः इति बोध: ( ल० म० सुब० ४ पृ० १०३ ) ।
केचित् पष्टिषेणानिष्टविषयकद्वेषहेतुकश्चित्तवृत्तिविशेषः । यथा
क्षमैव क्रोधविजये समर्थेति विवेकिनः । क्रोधः कार्यविभङ्गाय तस्मात्तं क्षमया
जयेत् (शकुनशा ० ) इत्यादौ । यथा वा क्रोधं विभो संहर संहर ( कुमार ०
३।७२) इत्यादौ इत्याहुः । दुःखे तत्साधने च इदं मे मा भूत् इति
स्पृहाविरोधिनी चित्तवृत्तिः क्रोधः इति पातञ्जलभाष्ये उक्तम् । क्रोधोमर्ष
• इति मिताक्षरा ( अ० २ लो० १) । रौद्ररसस्य स्थायिभावः क्रोध इत्या
लंकारिका आहुः । सांख्यास्तु काम एव कुतश्चित्पराहतः क्रोधरूपेण -
। स च रजोगुणकार्यः । यथा सङ्गात्संजायते कामः कामात्क्रोधोभिजा-
यते ( गीता २।६२) इत्यादौ इति मन्यन्ते । २ षष्टिवर्षान्तर्गतोष्ट त्रिंशत्तमो
वर्षविशेषः । यथा विषमस्थं जगत्सर्वे व्याकुलं समुदाहृतम् । जनानां
जायते भद्रे ! क्रोधे क्रोधः परस्परम् ॥ इति पौराणिका आहुः (वाच० ) ।
क्लेद:-[क] जलविशेषः । जलविशिष्टपृथिवी वा (गौ० वृ० ३।१।३१) ।
अत्रोक्तं याज्ञवल्क्येन रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ( अ० ३
(७७) इति । अत्रेदं बोध्यम् । देहस्थ: केदः श्लेष्मकार्यः ।
मते
श्लो०