This page has not been fully proofread.

२५०
 
न्यायकोशः ।
 
इति । अत्र साध्यात्मकक्रियाया लिङ्गसंख्यान्वयित्वाभावेन तद्विशेषण-
स्तोकादिवाचकपदस्योत्सर्गत एकवचनक्कीबता । अत एव स्तोकं पच्चत
इत्यादि साधु संगच्छते । घञाद्यन्ते साध्यसिद्धोभयक्रिययोर्धातुप्रत्ययाभ्या
बोधनस्थले तु कातन्त्रपरिशिष्टाद्युक्ते स्तोकं पाकः इत्यादौ धातुबोय.
साध्यरूपक्रियाविशेषणत्वविवक्षायामेकवचनक्की बता । घञ्वाच्यसिद्धक्रिया-
न्वयविवक्षायां तु विशेषणस्य लिङ्गसंख्यान्वयित्वेन तद्विशेषणपदस्य
• द्विवचनपुंस्त्वादि । अत एव संचारो रतिमन्दिरावधि सखीकर्णावधि ।
व्याहृतम् इति आगमो निष्फलस्तत्र भुक्तिः स्तोकापि यत्र नो इतिच
प्रयोगः संगच्छते इति शाब्दिकमतम् । अत्र के चिन्नैयायिकास्तु शुद्ध-
धात्वर्थविशेषणत्वविवक्षायां द्वितीयैव । घञाद्यन्तसमुदायविशेषणत्वेतुन
द्वितीयाक्कीबतानियमः । अत एव स्तोकं पाकः इति प्रयोगो न साधु
• सार्थक प्रत्ययान्तधातूपस्थाप्यार्थः इत्यर्थपरत्वेन न कुत्राप्यनुपपत्तिः 5
इत्याहुः । वस्तुतस्तु क्रियाविशेषणानां कर्मत्वम् इत्यत्र क्रियेति पदस्य
विज्ञेयम् ( ग० व्यु० का० १ पृ० ६ ) । अत्रायं विशेषः ।
 
• पक्तेत्यादौ क्रियाविशेषणैः कर्मधारय एव । महाकविर्महाविज्ञ इत्यादी
बोधकतया कर्मधारयस्य संभवात् । स्तोकं पत्तेत्यादाव मस्तादात्म्यवाचित
कवित्वादाविव प्रकृतेप्येकनामार्थैकदेशे पचनादावपरनामार्थस्या मेदान्वय-
• तत्पुरुषः संभवत्येव । अयमाशयः । यत्राभेदेनान्वयबोधस्तत्र कर्मधारयः ।
यत्र च भेदेनान्वयबोधस्तत्र तत्पुरुषः इति मर्यादा । एवं च
तादात्म्यस्याम्वाच्यत्वेन पदोपस्थापितत्वात् पदादुपस्थापितस्य प्रकारतवापि
भानं संभवति इति नियमेनामूवाच्यस्तोकतादात्म्यस्याश्रयतासंब
पचनक्रियायामन्वयो वाच्यः । तथा च तादृशसंबन्धस्य भेदसंबन्धला.
। तत्पुरुषः इति । क्रियाविशेषणैः समास एवाव्युत्पन्नः इति तुन
देश्यम् । स्तोकनम्रा स्तनाभ्याम् (मेघदू० २।१९) इत्यादेः काजिद-
साद्यैः प्रयुक्तत्वात् ( श० प्र० श्लो० ३८ पृ० ४८ ) ।
 
इति
 
Cate
 
स्तोक
 
प्रकृते
 
-
 
क्रीतानुशयः - क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशर
 
इत्येतद्विवादपदमुच्यते ॥ ( मिताक्षरा २११७७)।