न्यायकोशः /303
This page has been fully proofread once and needs a second look.
२४९
५ अनुष्ठानम् । यथा यथाक्रमं पुंसवनादिकाः क्रियाः (रघु० ३।१० ) ।
यथा वा आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते
( जैमि० सू० १।२।१ ) इत्यादौ । ६ शिक्षा । यथा क्रिया हि वस्तू-
पहिता प्रसीदति ( रघु० ३।२९) इत्यादौ । ७ चिकित्सा । यथा क्रियाः
सर्वा गतायुषः (सुश्रुते० ) इत्यादौ । मोघा इति शेषः । ८ धात्वर्थो
व्यापारमात्रम् । यथा तेन तुल्यं क्रिया चेद्वतिः (पा० सू० ५/१/११५)
क्रियासमभिहारे यङ् ( पा० सू० ३१११२२ ) इत्यादौ । ९ धात्वर्थः
फलमात्रम् । यथा कर्मवत् कर्मणा तुल्यक्रियः (पा० सू० ३१११८७ )
"
इत्यादौ । १० श्राद्धम् । यथा चतुर्दश्यां क्रियाः कार्या अन्येषां तु विग-
हिंता: ( मरीचि० ) इत्यादौ (वाच० ) । ११ प्रमाणदर्शनम् ( पुरावा
इति प्र० ) ।
<क्रियायोगः
तपः स्वाध्यायेश्वरप्रणिधानानि (पात० सू० २११ ) ( सर्व ०
-
सं० पृ० ३६७ पातञ्ज० ) ।
20
<क्रियाविशेषणम्
धात्वर्थसाध्यात्मक क्रियायां शाब्दबोधे विशेषण
भासमानः पदार्थः । यथा स्तोकं पचति मृदु पचतीत्यादौ स्तोकमृद्वादि
विक्कत्त्यादिरूपधात्वर्थविशेषणम् । अत्र विशेष्यतवशेषणम्
•
व्युत्पत्त्या विशेषणपदं भेदाभेदान्यतरसंबन्धेनान्वयिविशेषणपरम् । तथा
च आख्यातं सकारकविशेषणम् इति महाभाष्येण चैत्राभ्यां सुप्यते
देवदत्त जानीहि इत्यादौ कारकादीनां चैत्रदेवदत्तादीनां भेदसंबन्धेन
क्रियाविशेषणत्वम् । स्तोकं पचतीत्यादौ तु विक्लितिरूपे धाव
गच्छति इत्यादा धात्वर्थव्यापारे अभेदेन स्तोकद्रुतादीनां विशेषणत्वम् इ
ज्ञेयम् । अत्रेदं बोध्यम् । भेदसंबन्धेन क्रियायामन्वयिविशेषणे पौनःपुन्
गच्छति अतिशयेन पचति समेनैति विषमेणैति इत्यादिषु प्रकृयादवेन
तृतीयेति केचिदाहुः । अन्ये तु नाम्ना शिवः इत्यादिवदमेदे तृतीयेत्याहुः ।
भत्रायं विवेकः । क्रियायामभेदसंबन्धेनान्वयविवक्षायाम् क्रियाविशेषणा
कर्मत्वम् इत्यनुशासनेन द्वितीया । भेदप्रकारेणान्वयविवक्षायां तु तृतीया
३२ न्या० को०