This page has not been fully proofread.

२४८
 
न्यायकोशः ।
 
मानोर्थः क्रिया इति शाब्दिका वदन्ति । अत्रोच्यते । क्रिया द्विविधा
साध्या सिद्धा च। तत्र धातुवाच्या क्रिया साध्या । सैवासत्त्वरूपेत्युच्यते।
यथा पचति करोतीत्यादौ क्रिया साध्या । घञादिप्रत्ययप्रतिपाद्या तु
क्रिया सिद्धा । यथा पाक इत्यादि । तदुक्तम् यावत्सिद्धमसिद्धं वा ।
• साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥ गुण-
भूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियते
व्यपश्॥ि (०म० ) (वै० सा०) । अत्र साध्यत्वं व
निष्पाद्यत्वमेव । केचित्तु पूर्वापरीभूतावयवत्वसमानाधिकरणं कारका ।
 
न्वयादियोग्यतावच्छेदकं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकं च यद्वैजास
 
जात्यं
 
तद्रूपं साध्यत्वम् । सिद्धत्वं तु क्रियान्तराकाङ्कोत्थापकतावच्छेदकं
तद्रूपम् । यथा पाक इत्युक्तेस्ति भवतीत्यादिक्रियान्तरा का होत्थाना /
सिद्धत्वम् । पचतीत्युक्ते तु तदनुत्थानात्साध्यत्वम् इत्याहुः ( ल० म० //
 
अथवा अत्र सिद्धत्वं च यद्धर्मवत्ताज्ञानात् क्रियान्तराकादयः त
ज्ञाने प्रकारतयावच्छेदकं यत् तत् । तद्भिन्नत्वम् ज्ञाननिष्ठतादृशाः ।
 
काङ्क्षोत्थापकत्वाभावावच्छेदकं वा साध्यत्वम् (वै० सा०
तेन अपचत् पक्ष्यति पचति इत्यादौ सर्वत्र साध्यत्वेना सत्वरूप
 
५०)/
 
स्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेन दर्शिता इति ।
 
( वाच ० ) । अत्रोक्तं हरिणा साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते ।
ज्ञेयम् । अथवा साध्यत्वं लिङ्गसंख्यानन्वयित्वम् । तद्विपरीतं सिद्धवर
इति ( वाक्यप० ) । तिङ्पदशब्देन तिङन्तं पदं गृह्यते । क्रियापद
यावत् । तथा च तिङ्पदैरित्यस्य क्रियापदघटितैर्धातुमिरित्यर्थः
विवेकः । पाक इत्यादौ धातुना साध्यत्वेनोपस्थाप्यायाः
 
* / अनार्य
 
सिद्धक्रियारूपे घञर्थे विशेषणत्वम् । पचत्यादौ तु नैवम् इति ( वाच० ॥
प्रवृत्तिविषयः क्रियेति मीमांसका: ( मू० म० १) । २ श्रौतस्मार्तकमा
नुष्ठानं शक्तितः क्रियेति रामानुजीयाः ( सर्व० सं० प्र० १२४
रामानु० ) । ३ चलनात्मकं कर्म । यथा परापरत्वमूर्तस्वक्रिया वेगाल
 
क्रियाया
 
•अमी (भा०प० लो० २५) इत्यादौ क्रियाशब्दार्थः कर्म / 8 प्रयोगः /