This page has not been fully proofread.

ग्रन्थकूचरितं नाम द्वितीय उपोद्धातः ।
 
मण्डलान्तर्गते 'करिजन' ग्रामे जातः उदयनाचार्यकृतायाः किरणावल्या
व्याख्यानरूपं किरणावली प्रकाशनामानं ग्रन्थं न्यायलीलावत्या व्याख्यानरूपं
न्यायलीलावती प्रकाशनामानं ग्रन्थं उदयनकृतन्यायपरिशिष्टस्य प्रकाशं गौ-
तमसूत्रस्य तत्त्वचिन्तामण्यादीनां व्याख्यानं च कृतवान् इति ।
 
( १३) महामहोपाध्याय-न्यायपञ्चानन-वासुदेवभट्टाचार्यसार्वभौमश्च त-
त्वचिन्तामणेर्व्याख्यानं कृतवान् । वासुदेवसार्वभौमस्य चत्वारः शिष्या आ-
सन्- गौराङ्गदेवः रघुनाथ: रघुनन्दनः कृष्णानन्दश्चेति । तत्र ( १ )
गौराङ्गस्तु ' भगवतो विष्णोरवतारः ( शचीनन्दनः ) ' इति केचिदाहुः ।
अन्ये तु – 'विरक्तो भगवद्भक्त:' इत्याहुः । ( २ ) रघुनाथतार्किक शिरो-
मणिश्च दीधितिकारो नैयायिक: । ( ३ ) रघुनन्दनभट्टाचार्यश्च धर्मशास्त्री ।
( ४ ) कृष्णानन्दवागीशश्च मन्त्रशास्त्री जातः इति । एते च चत्वारस्तत्त-
च्छास्त्रेषु निबन्धांश्चक्रुः इति किंवदन्ती ।
 
-
 
२८
 
( १४ ) जयदेवमिश्रः ( पक्षधर मिश्रः ) हरि मिश्र शिष्यो वासुदेवसार्व-
भौमस्य सहाध्यायी तत्त्वचिन्तामणेर्व्याख्यानमालोकनामानं ग्रन्थं चकार इति ।
 
( १५) रघुनाथभट्टाचार्यतार्किकशिरोमणिश्च वासुदेव सार्वभौमशिष्यो
वङ्गदेशे नवद्वीपग्रामे नद्याशान्तिपुरे ( भाषया 'नडिया' इति प्रसिद्धे ).
जातः । स च ( रघुनाथतार्किक शिरोमणिः ) A तत्त्वचिन्तामणेर्व्याख्यानं
दीधितिनामानं B बौद्धाधिकारापरपर्यायस्यात्मतत्त्वविवेकस्य व्याख्यानं दीधि-
तिनामानं C किरणावल्या न्यायलीलावत्याश्च प्रकाशस्य ( वर्धमानकृतस्य )
व्याख्यानं द्रव्यप्रकाश विवृति गुणप्रकाश विवृति ( विषमपदटिप्पनीं ) दीधि -
तिनामानं D पदार्थतत्त्वनिरूपणं नाम ( पदार्थखण्डनम् ) E आख्या-
तवाद (आख्यात विवेकम् ) च ग्रन्थं चकार इति ।
 
-
 
१५ गौराङ्गो नाम राजाऽस्ति । स च शालिवाहन शके (१४०७) वर्षे आविरासीत् ।
१६ मनुस्मृतिव्याख्यानकर्ता च राघवानन्दः अयं तु रघुनन्दनः इति तयोर्भेदः ।
१७ अत्रैतिह्यम्
– 'सार्वभौमे चाध्ययन निवृत्त्या स्वदेशं गते तच्छिष्ये रघुनाथ शिरोम-
●णावपि पक्षधर मिश्राच्चाध्येतुं समायाते कदाचित् सामान्यलक्षणायाः प्रत्यासत्त्याः खण्डने
च कृते सति पक्षधरमिश्रः शिष्यत्वमापन्नं रघुनाथं प्रति प्रोवाच – "वक्षोजपानकृत्काण
संशये जाग्रति स्फुटे । सामान्यलक्षणा कस्मादकस्मादपलप्यते" इति ।