2023-10-23 15:21:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२४३
 
(न्या० बी० पृ० १५) । यथा अभिधेयत्वम् ज्ञेयत्वम् प्रमेयत्वम्

वाच्यत्वं च केवलान्वयि भवति ( न्या० म० २ पृ० १९ ) । अत्रा-

भिधेयत्वं भगवदिच्छारूपशब्दशक्तिविषयत्वम् । तच्च सर्वत्रैव वर्तते ।

तस्य न कुत्राप्यत्यन्ताभावोस्ति । सर्वस्यैव भगवदिच्छाविषयत्वात् ।

वस्तुपदशक्यत्वात् । एवं वाच्यत्वम् । ज्ञेयत्वं च ज्ञानविषयत्वम् । तच्च

सर्वत्रैव वर्तते। सर्वस्यैव भगवज्ज्ञान विषयत्वात् । एवम् प्रमेयत्वं प्रमावि-

षयत्वम् । तच्च सर्वत्रैव वर्तते । सर्वस्यैव भगवत्प्रमाविषयत्वात् (न्या

म० २ पृ० १९ ) । प्रमाजातीयविषयत्वं वा प्रमेयत्वम् । अथवा

प्रमात्वमेव हि परंपरासंबन्धात् स्वाश्रयप्रमाविषयत्वरूपात् घटादौ प्रमेय -

त्वमनुगतम् ( चि० २ पृ० ४७ ) ।
 
IF THE GIDA
 
REA
 

 
<
केवलान्वयिहेतुः- >
(अवयवः) अत्यन्ताभावाप्रतियोगिसाध्यसमानाधि-

करणपक्षसपक्षसद्धेतुवचनम् ( चि० २ अव० पृ० ७९ ) । यथा

घटोभिधेयः प्रमेयत्वादित्यादौ प्रमेयत्वात् इति हेतुपदम् ।
कं

 
<कै
वल्यम्>
१ मोक्षः । स च आत्यन्तिकदुःखत्रयविगम इति सांख्याः

( सां० भा० ) । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम्

स्वरूपप्रतिष्ठा चितिशक्तिः इति योगिन आहुः । पुरुषस्य निर्लेपस्य

कैवल्येनावस्थानं कैवल्यम् ( सर्व० सं० पृ० ३३६ पात० ) । अद्वि-

तीयब्रह्मभावापत्तिरिति मायावादिनः । २ एकत्वम् ( ग० शक्ति० ) ।

 
<
कोटि: ->
१ संशयजनकज्ञानीयप्रकारतावान् । यथा वह्निमान्न वेत्यादिविप्र-

तिपत्तिवाक्यजन्य कोट्यपस्थितिः इत्यादौ वयादिः । २ पूर्वपक्षः ।

३ त्रिकोणादिक्षेत्रावयवरेखाविशेषः कोटिरिति लीलावतीकारादयः ।

४ राशिचक्रस्य तृतीयांश इति ज्योतिर्विदः । ५ संख्याविशेष इति

गणकाः । ६ प्रकर्षः । ७ अग्रभाग इति काव्यज्ञा वदन्ति ।

 
<
कोटिता>
प्रकारताविशेष: ( ग० सत्प्र० ) । यथा वह्निमान्न वा इति
 
2
 

संशये वह्नयादेः कोदिता ।
 
-
 
-