This page has not been fully proofread.

न्यायकोशः ।
 
२४३
 
(न्या० बी० पृ० १५) । यथा अभिधेयत्वम् ज्ञेयत्वम् प्रमेयत्वम्
वाच्यत्वं च केवलान्वयि भवति ( न्या० म० २ पृ० १९ ) । अत्रा-
भिधेयत्वं भगवदिच्छारूपशब्दशक्तिविषयत्वम् । तच्च सर्वत्रैव वर्तते ।
तस्य न कुत्राप्यत्यन्ताभावोस्ति । सर्वस्यैव भगवदिच्छाविषयत्वात् ।
वस्तुपदशक्यत्वात् । एवं वाच्यत्वम् । ज्ञेयत्वं च ज्ञानविषयत्वम् । तच्च
सर्वत्रैव वर्तते। सर्वस्यैव भगवज्ज्ञान विषयत्वात् । एवम् प्रमेयत्वं प्रमावि-
षयत्वम् । तच्च सर्वत्रैव वर्तते । सर्वस्यैव भगवत्प्रमाविषयत्वात् (न्या
म० २ पृ० १९ ) । प्रमाजातीयविषयत्वं वा प्रमेयत्वम् । अथवा
प्रमात्वमेव हि परंपरासंबन्धात् स्वाश्रयप्रमाविषयत्वरूपात् घटादौ प्रमेय -
त्वमनुगतम् ( चि० २ पृ० ४७ ) ।
 
IF THE GIDA
 
REA
 
केवलान्वयिहेतुः- (अवयवः) अत्यन्ताभावाप्रतियोगिसाध्यसमानाधि-
करणपक्षसपक्षसद्धेतुवचनम् ( चि० २ अव० पृ० ७९ ) । यथा
घटोभिधेयः प्रमेयत्वादित्यादौ प्रमेयत्वात् इति हेतुपदम् ।
कंवल्यम् – १ मोक्षः । स च आत्यन्तिकदुःखत्रयविगम इति सांख्याः
( सां० भा० ) । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम्
स्वरूपप्रतिष्ठा चितिशक्तिः इति योगिन आहुः । पुरुषस्य निर्लेपस्य
• कैवल्येनावस्थानं कैवल्यम् ( सर्व० सं० पृ० ३३६ पात० ) । अद्वि-
•तीयब्रह्मभावापत्तिरिति मायावादिनः । २ एकत्वम् ( ग० शक्ति० ) ।
कोटि: -१ संशयजनकज्ञानीयप्रकारतावान् । यथा वह्निमान्न वेत्यादिविप्र-
• तिपत्तिवाक्यजन्य कोट्यपस्थितिः इत्यादौ वयादिः । २ पूर्वपक्षः ।
३ त्रिकोणादिक्षेत्रावयवरेखाविशेषः कोटिरिति लीलावतीकारादयः ।
४ राशिचक्रस्य तृतीयांश इति ज्योतिर्विदः । ५ संख्याविशेष इति
गणकाः । ६ प्रकर्षः । ७ अग्रभाग इति काव्यज्ञा वदन्ति ।
कोटिता – प्रकारताविशेष: ( ग० सत्प्र० ) । यथा वह्निमान्न वा इति
 
2
 
संशये वह्नयादेः कोदिता ।
 
-
 
-