2023-10-23 15:18:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२४१
 
न्यायकोशः ।
 
पृ० १९ ) । अथवा अगृहीतहेतुसहचारं यत् व्यतिरेकिसाध्यम्

तत्कत्वम् ( दि० गु० पृ० २१९) । यद्वा यत्र निरुपाधिव्यतिरेक-

सहचारेणान्वयव्याप्तिग्रहस्तत्त्वम् (चि० २ पृ० ४८-४९ ) । [ग]

व्यतिरेकमात्रव्याप्तिकम् (त० सं० ) ( न्या० म० २ ) । [घ ] यत्र

व्यतिरेक व्याप्तिरेवास्ति तत् ( त० कौ० २ पृ० ११ ) । यथा पृथिवी

इतरेभ्यो भिद्यते गन्धवत्त्वादित्यत्र गन्धवत्वं केवलव्यतिरेकि (त० सं० )

(न्या० म० २ ) । अत्र जलादीनां त्रयोदशान्योन्याभावास् त्रयोदशसु

प्रसिद्धाः पृथिव्यां साध्यन्ते इति तात्पर्यम् । अत्रानुगमश्च योभावो

यस्याभावस्य व्यापकत्वेन गृहीतः तदभावाभावेन तस्य व्याप्यस्याभावः

पक्षे साध्यत इति ( चि० २ पृ० ६३ ) । पृथिवीतरेभ्यो भिद्यते

पृथिवीत्वात् इत्यादौ यन्नेतरेभ्यो भिद्यते तन्न पृथिवी यथा जलम् । न च

नेयं पृथिवी तस्मादितरेभ्यो भिद्यत इति व्यतिरेकिणमुदाहरन्ति । न च

पक्षातिरिक्त जलादौ साध्यसाधनयोः सहचारोस्ति निश्चीयते वा ( न्या०

म० २ १० १९ ) । यथा वा जीवच्छरीरं सात्मकं चेष्टावत्त्वात्

प्राणादिमत्त्वात्यादौ हेतुः केवलव्यतिरेकी ( चि० २ पृ० ५६-६३ )

( त० कौ० २ पृ० ११) । अत्र सात्मकत्वं च चेष्टाया असमवायि-

कारणसंयोगाश्रयत्वे सति शरीरत्वम् । तच्च जीवच्छरीरे सायम् । चेष्टा-

वस्वादिति हेतुः । चेष्टाविरहश्च घटादौ प्रत्यक्षसिद्धः । चेष्टाविरहात्तद-

समवायिकारणसंयोगविरहोपि सुग्रहः इत्यादि ( चि० २ पृ०५८ ) ।

अत्र यत् सात्मकं न भवति तत् प्राणादिमन्न भवति यथा घटः इति

व्यतिरेक व्याप्तिरेवास्ति । न तु यत् प्राणादिमत् तत् सात्मकम् इत्य-

न्वयव्याप्तिरस्ति । जीवच्छरीरमात्रस्य पक्षीकरणेन दृष्टान्ताभावात् ।

पक्षातिरिक्त हेतुसाध्ययोरेवासत्वादिति ( त० कौ० २ पृ० १२ )
 

( प्र० प्र० पृ० ६ ) ग
 
..

 
<
केवलसमासः - >
(समासः ) अव्ययीभावादिषट्रान्यत्वे सति यः समासः

सः । यथा पूर्व भूतः इति विग्रहे भूतपूर्वः इत्यादिः ( म०प्र० ४
 

पृ० ४४ ) ।

३१ न्या० को०