This page has not been fully proofread.

न्यायकोशः ।
 
२३९
 
कृञोर्थः इत्याहुः । अत एवास्य धातोः सकर्मकत्वमपि संगच्छते ।
तत्रोक्तम् व्यापारो भावना सैवोत्पादना सैव च क्रिया । कृञोकर्मकता-
पत्तेर्नहि यत्नोर्थ इष्यते ॥ किंतूत्पादनमेवातः कर्मवत् स्याद्यगाद्यपि ।
कर्मकर्तर्यन्यथा तु न भवेत् तद्दृशेरिव ॥ इति (वै० सा० धात्वर्थ ०
भर्तृ० श्लो० ५/६ पृ० ५०-६१ ) ।
 
कृतिः—१ प्रयत्नवदस्यार्थोनुसंधेयः (त० सं० ) । २ प्रवृत्तिः ।
कृत्यपञ्चकम् – पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः । तद्वदनुग्रह-
करणं प्रोक्तं सततोदितस्यास्य ॥ ( सर्व० सं० पृ० १८० शै० ) ।
कृदन्तम् – (यौगिकं नाम) यद्धात्वर्थान्वितस्वार्थान्वयबोधं प्रति यादृशानु-
'पूर्व्यवच्छिन्नस्य यत्कृतो निश्चयः कारणम् तद्धातूत्तरगं तत् कृदेव तादृ-
शानुपूर्व्यवच्छिन्नं सत् कृदन्तं नाम यथा पाचकपाठ्यमानेत्यादि ।
तद्धि धात्वर्थेनान्वितस्य स्वार्थकर्त्रादेः कर्मत्वादावन्वयबोधं प्रति द्वितीया
तादृशानुपूर्वीकत्वेन निश्चीयमानं हेतुर्भवति इति लक्षणसमन्वयो
• बोध्यः ( श० प्र० श्लो० ५२ पृ० ६८) ।
 
द्यंशे
 
-
 
-
 
कृपा - निरुपधिपरदुःखप्रहाणेच्छा । यथा मिथुने कृपावती ( कुमार ० )
 
इत्यादौ ।
 
कृषिः– विलेखनम् । यथा भृतिभुजः कर्षन्ति हलैरित्यादौ धात्वर्थः ।
• विलेखनं चात्र भूम्यवयवशैथिल्यानुकूलव्यापारः । कचित् प्रतिविधानम् ।
यथा पञ्चभिर्हलैः कर्षति गृहीत्यादौ धात्वर्थ: (ग० व्यु० का० ३
पृ० ८१ ) । प्रतिविधानं चात्र भूम्यवयवशैथिल्यानुकूलव्यापारानुकूल-
व्यापारः । स च प्रेरणादिरूपः ।
 
Sam
 
कृष्णपक्षः -- कलाक्षयाधिकरणकालः ( पु० चि० पृ० ३१ ) ।
कृष्णलम् - सुवर्णशकलम् ( जै० न्या० अ० ८ पा० १ अधि० १८) ।
कृसत्वम्-१ नियतत्वम् अवधारणेन कल्पितत्वं वा ( वाच० ) । यथा
• अवश्यकृप्तनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासिद्धम् (मु० १)