2023-10-23 14:36:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२३७
 
[ ख ] अनिर्धारित विशेष विशिष्टम् ।
 
यथा कीदृशो गवयपदवाच्यः
 
इत्यादौ
 

इत्यादौ
( म० प्र० ३ पृ० ३४ ) । यथा वा कस्मै नाथ समर्प्य

कौरवकुलं व्योमान्तमालम्बसे ( उद्भटः ) इत्यादौ । २ ईषदर्थः । यथा

न किमप्यस्यास्ति इत्यादौ । ३ अतिशयः । यथा किमप्येष प्रगल्भते

इत्यादौ । अत्र अतिशयितं प्रगल्भते इति बोधः (वाच० ) ।

४ प्रश्नः । यथा किमिदं किंनरकण्ठि सुप्यते (रघुः) इत्यादौ

(वाच० ) । ५ वितर्कः । स च प्रयोक्तः संभावनात्मकं ज्ञानम् ।

यथा किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं किमब्जे किं मीनौ
 

किमु मदनबाणौ किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा

कि कुचौ ता तारा वा कनकलतिका वा किमबला ॥ इत्यादौ
 

किंशब्दार्थः । ६ कुत्सा । यथा किंगौरित्यादौ ( ग० शक्ति ० १०

१०९ - ११० ) । यथा वा स किंसखा ( किरा० १।५ इत्यादौ ) ।

एवम् वाशब्दस्याप्यर्थो ज्ञेयः ( ग० शक्ति० पृ० १०९ ) ।

 
<
किमु>
( अव्ययम् ) १ प्रश्नः । २ निषेधः । ३ वितर्कः । ४ निन्दा ।

यथा किमु भीरु ररार्यसे (भट्टिः ) इत्यादौ ( वाच० ) ।

 
<
किमुत>
(अव्ययम् ) १ प्रश्नः । २ वितकेः । तत्र प्रमाणम् आहो

उताहो किमुत वितर्फे किं किमूत च इति ( हेम० ) ( वाच० ) ।

३ विकल्पः । ४ अतिशय: ( वाच० )।
 

 
<
किल->
(अव्ययम् ) १ आगमप्रसिद्धिः । यथा कंसं जघान किल वासु-

देवः इत्यादौ । अत्र कृष्णकर्तृकं कंसहननमागमसिद्धम् इति बोधः ।

२ अरुचिः । यथा एवं किल केचिद्वदन्ति इत्यादौ । अत्र केषांचिदेवं

कथनं वक्तररुचिविषयः इति बोधः । ३ न्यक्कारः । यथा स किल

योत्स्यते इत्यादौ । अत्र तस्य योधनशक्तिराहित्यद्योतनात् तिरस्कारो

गम्यते । ४ संभावना । यथा पार्थः किल विजेष्यते कुरून्

इत्यादौ । अत्र पार्थकर्तृककुरुविजयः संभावनाविषयः इति बोधः ।

५ हेतुः । यथा स किलेवमुक्तवान् इत्यादौ । अत्र तत्कथनस्यान्यत्र

हेतुता योग्यते । ६ अलीकम् । यथा प्रसय सिंहः किल तां चकर्ष