2023-10-23 14:35:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२३६
 
न्यायकोशः ।
 
काव्यम् –
<काव्यम्>
नायकादिप्रतिपादको वाक्यसंदर्भः । यथा वाल्मीकिविरचितं

रामायणं काव्यम् । आलंकारिकास्तु अदोषौ सगुणौ सालंकारौ शब्दार्थों

काव्यम् । दोषवर्जितं सगुणं सालंकारं शब्दविशिष्टार्थ अर्थविशिष्टशब्द

एतदन्यतरत् काव्यम् इति समुदितार्थः । तदुक्तम् । गुणालंकारसहितों

शब्दार्थों दोषवर्जितौ । गद्यपद्योभयमयं काव्यं काव्यविदो विदुः

इति ( प्रतापरु० पृ० १२) । तददोषौ शब्दार्थो सगुणावनलंकृती /

पुनः कापि इति ( काव्यप्र० उ० १ श्लो० ४ ) । पूर्वोक्तविशेषण-

विशिष्टः शब्द एव काव्यं नार्थः काव्यमिति रसगङ्गाधरकृदादय आहुः ।

काव्यसंपत्सामग्री तु शब्दार्थो मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् !

हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ श्लेषादयो गुणास्तत्र शौर्यादय

इव स्थिताः । आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ शोभामाधु

प्राप्ता वृत्तयो वृत्तयो यथा । पदानुगुण्यविश्रान्तिः शय्या शब्देव

संमता ॥ रसास्वादप्रभेदाः स्युः पाका: पाका इव स्थिताः ।

लोकवदियं सामग्री काव्यसंपदः ॥ इति ( प्रतापरु० पृ० १२ ) ।

 
<
कासराक्षः>
महिषाख्यो गुग्गुल: ( पु० चि० पृ० ३०४ ) ।

 
<
किंच->
(अव्ययसमुदाय: ) १ आरम्भः । २ समुच्चयः । ३ साकल्यम
 

४ संभावना । ५ अवान्तरम् ( वाच० ) ।
 

 
<
किंचन>
( अव्ययसमुदाय: ) १ असाकल्यम् । २ अल्पम् ( वाच० ///

 
<
किंचित्>
( अव्ययसमुदायः ) १ असाकल्यम् । २ अल्पम् । यथा कम्पेन

किंचित् प्रतिगृह्य मूर्ध्न: ( रघु० ) आवर्जिता किंचिदिव स्तनाम्याद
 

( कुमार० ) इत्यादौ ( वाच० ) ।
 
PO
 

 
<
किंतु>
( अव्ययसमुदाय: ) १ पूर्ववाक्यसंकोचज्ञापनम् / २ प्रायुक्त
 

विरुद्धार्थः । ३ किंपुनरर्थ: ( वाच० ) ।
 

 
<
किंतु - >
(अव्ययसमुदायः ) १ प्रश्नः । २ वितर्कः । ३ सादृश्यद //
 

४ स्थानम् ( वाच० )।
 

 
<
किम्>
१ [क] जिज्ञासितम् ( ग० शक्ति० पृ० १०४ ) (दि० १

पृ० १७९ ) ( म० प्र० ३।३४ ) । यथा किं तव नामधेयमित्यादी ।
 
-
 
-
 
प्रख्याता