न्यायकोशः /29
This page has not been fully proofread.
ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः ।
२७
र्षापूर्व मिथिलादेशे न्यवसत् । केचित्तु – 'अभिनवोदयनाचार्यो दक्षिण-
देशे वङ्गदेशे वा जातः' इत्याहुः । उदयनाचार्यो न्यायाचार्यत्वेन प्रसिद्धः
A. न्यायवार्तिकतात्पर्यस्य टीकारूपं न्यायवार्तिकतात्पर्य परिशुद्धिनामानं
ग्रन्थम् B न्यायपरिशिष्टम् C प्रशस्तपादकृतभाष्यस्य व्याख्यानरूपं
किरणावलीनामानं ग्रन्थम् D आत्मतत्त्वविवेकम् ( बौद्धाधिकारम् ),
E न्यायकुसुमाञ्जलिं च कृतवान् इति ।
वर्षे
( ९ ) श्रीधराचार्यश्च विक्रमाब्दे ( १०४८ ) तथा ( शके ९१३ )
प्रशस्तपादाचार्यकृतभाष्यस्य व्याख्यानरूपं न्यायकन्दलीनामानं ग्रन्थं
कृतवान् इति । श्रीधराचार्यस्य पिता बलदेवः । माता तु अव्बोका । नि-
वासस्तु गौडदेशापरपर्यायवङ्गदेशान्तर्गते गङ्गायाः पश्चिमे तटे 'राढ '
देशे भूरिश्रेष्ठिक इति प्रसिद्धे भूरिसृष्टिग्रामे 'राढापुरी' इत्यस्मिन् ।
( १० ) महामहोपाध्यायो वल्लभाचार्यश्च न्यायलीलावतीनामानं ग्रन्थं
कृतवान् इति ।
( ११ ) गङ्गेशोपाध्यायश्च इतः सप्तशत्याः पूर्व (शके ११०० ) ए-
कादशशतके बङ्गदेशे आसीत् । केचित्त – ( शके १०३० ) एतस्माद्-
र्षापूर्वमासीत्' इत्यङ्गीचक्रुः । गङ्गेशोपाध्यायस्तु सकलन्यायतर्कग्रन्थेभ्यः सा-
रमुद्धृत्य तत्त्वचिन्तामणि - नामानं नव्यपरिष्कारपरिष्कृतमुत्तमं ग्रन्थं विर-
चितवान् इति ।
( १२ ) वर्धमनोपाध्यायश्च गङ्गेशोपाध्यायपुत्रः मिथिलादेशे दरभंगा-
ल्यादौ श्रीहर्षो वत्सराज उदयनश्च प्रतिपादितः सोऽन्य एव इति । अन्ये तु – 'श्रीहर्षा-
त्पूर्व एव वाचस्पतिमिश्रः इति शंकर मिश्रग्रन्थादवगम्यते । अतो वाचस्पतिमिश्रात्पूर्व-
मेवोदयनाचार्य आसीत्' इत्याहुः । परे तु – 'वाचस्पति मिश्रादनन्तरकालिक एवोदयना-
चार्यः इति तात्पर्यपरिशुद्धिग्रन्थेनात्मतत्त्वविवेकेन चावगम्यते' इति प्राहुः ।
१३ अत्रेदमनुमापकम् - लक्ष्मणसेननामा नृपतिर्वङ्गदेशे बभूव यस्य सभापण्डितो
हलायुधभट्ट आसीत् । तस्य राज्ञः प्रवृत्तिः ( शालि० शके १०३० ) वर्षे प्रादुरासीत् ।
तथाच 'ततोsपि पूर्व गङ्गेशोपाध्याय आसीत्' इति निश्चीयते ।
१४ गणरत्नमहोदधिकारो गोविन्दसूरिशिष्यो वर्धमानस्तु जैन एव इत्यस्माद्वर्धमानो-
पाध्यायादन्यः इति ज्ञेयम् । गणरत्नमहोदधिर्विक्रमशकवर्षेषु ( ११९७ ) अतीतेषु
विरचितः इति ।