This page has not been fully proofread.

न्यायकोशः ।
 
२३५
 
वर्त्य विधेयः इत्याकूतम् । गौडाश्च समासप्रत्ययविधौ प्रतिषेधो वक्तव्यः
(पा० सू० ११ १/७२ वार्ति० ) इत्युक्तेः तदन्तविधिपरिभाषाया
अप्रवृत्तेः कालान्तशब्दान्नास्य प्रवृत्तिः । तेन तदन्तशब्दात् ख एव
साधुः । समानकालीनः प्राक्कालीन इति भूरिप्रयोगात् इत्याहुः ।
वस्तुतस्तु तद्धिताः (४।१।७६) इति पाणिनिसूत्र स्थबहुवचनेनानुक्त-
स्थलेपि तद्धितप्रत्ययो बोध्यते । स चात्र खप्रत्ययः इति विज्ञेयम् ।
वैयाकरणमते तु भाष्यानुक्तत्वादप्रमाणमेतत् । अत एव अपभ्रंशा एवैते
इति प्रामाणिका इति सिद्धान्तकौमुयामुक्तम् (कौ० ४ । ३ । ११ ) ।
कालोपाधिः - क्षणदिनादिव्यवहारविषयत्वनियामको धर्मः । स च जन्य-
मात्रं (अनित्यमात्रं ) क्रियामात्रं वा कालोपाधिः । तथाहि स्वजन्यविभा-
गप्रागभावावच्छिन्नं कर्म (१) पूर्वसंयोगावच्छिन्नविभागः (२) पूर्वसंयोग-
नाशावच्छिन्नोत्तरसंयोगप्रागभावः (३) उत्तरसंयोगावच्छिन्नं कर्म (४) च
इत्यादि (मु० १ पृ० ९२ ) । स्वजन्येत्यस्यार्थश्च स्वम् रविक्रिया । तज्जन्यो
विभाग: रविपूर्वदेशयोर्विभागः । तस्य प्रागभावः । स तादृशक्रियोत्पत्ति-
काले तिष्ठति । तदवच्छिन्नम् तदेव कर्म इति (सि० च० १ पृ० १०) ।
पूर्वसंयोगेल्यादेः स्वजन्य विभागनाश्यपूर्वसंयोगविशिष्ट स्वजन्यविभाग
इत्यर्थः । पूर्वसंयोगनाशेत्यादेः स्वजन्यविभागजन्यपूर्वसंयोगनाशावच्छिन्नः
स्वजन्योत्तरसंयोगप्रागभाव इत्यर्थः । उत्तरसंयोगेत्यादेः स्वनाशकोत्तर-
• संयोग इत्यर्थ: ( दि० १ पृ० ९२ ) । अनेनोपाधिचतुष्टयेन क्षण-
चतुष्टयव्यवहार उपपद्यते । एवम् क्षणान्तरव्यवहारनियामकं कर्मान्तरादि
ऊह्यम् । महाप्रलये क्षणादिव्यवहारो यद्यस्ति तदा सोनायत्या ध्वंसेनैव
उपपादनीयः इति (मु० १ पृ० ९३ ) । स्ववृत्तिध्वंसप्रतियोगिप्रतियोगि
कावसविशिष्ट समयस्यैव तत्र क्षणव्यवहारविषयत्वमिति भावः (दि० १
पृ० ९३ ) । अत्र प्रथमक्षणे क्रियोत्पद्यते । अनन्तरं क्रियातो विभागः ।
ततः पूर्वसंयोगनाशः । तत उत्तरदेशसंयोग उत्पद्यते । इति एकवारं
• नेत्रनिमीलने नैयायिक प्रक्रिया ज्ञेया । एत एव क्रियादयश्चत्वारः क्र
 
चत्वार उपाधयो बोध्याः ।
 
1