2023-10-23 14:28:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२३३
 
तास्तु काले प्रदृश्यन्ते नैवाकाले कथंचन ॥ इति च द्रष्टव्यम् (वाच ० ;)

कालोतीन्द्रिय इति नैयायिकसिद्धान्तः । तथा च दिग्विपरीतपरत्वापरत्वा-

नुमेयः काल इति ( त० भा० पृ० ३१) । प्राभाकराश्च कालः षडि-

न्द्रियवेद्य इति अमन्यन्त ( म०प्र० पृ० ६५ ) । मायावादिनस्तु

कालः साक्षिप्रत्ययभास्य इति अङ्गीचक्रुः । २ विवेकसाक्षात्कारान्तरायो

मेघाख्यस्तुष्टिविशेषः काल इति सांख्या आहुः ( वाच ० ) ।

 
<
कालातीत:>
१ (बाधितहेत्वाभास: ) [ क ] कालात्ययापदिष्ट: काला-

तीतः (गौ० ११२१९ ) । [ख] कालातीतो बलवता प्रमाणेन

प्रबाधितः (ता० २० श्लो० ८६ ) । २ कालातिक्रमः । यथा काला-

तीते वृथा संध्या वन्ध्यास्त्रीमैथुनं यथा इत्यादौ । अत्रार्थे कालातीतशब्दस्य

कालस्यातीतमव्ययः इति व्युत्पत्तिद्रष्टव्या (वाच० ) ।

 
<
कालात्ययापदिष्टः- >
( हेत्वाभासः ) [ क कालस्य साधनकालस्या-

त्यये अभावेपदिष्टः प्रयुक्तो हेतुः । एतेन साध्याभावप्रमा लक्षणार्थ इत

सूचितम् । साध्याभावनिर्णये साधनासंभवात् । अयमेव बाधितसाध्यक

इति गीयते । यथा वहिरनुष्णः कृतकत्वादित्यादौ ( गौ० वृ० १/२/९) ।

कालात्ययापदिष्टः कालातीतः ( गौ० १।२।९ ) । कालात्ययेन प्रयुक्तो

यस्यार्थस्यैकदेशोपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्युच्यते ।

निदर्शनम् नित्यः शब्दः संयोगव्यङ्ग्यत्वाद्रूपवत् (वात्स्या० ११२१९ ) ।

[ख यस्य बलवत्प्रत्यक्षादिप्रमाणेन पक्षे साध्याभावः परिच्छिन्नः

सः । स एव बाधितविषय इत्युच्यते । यथा अग्निरनुष्णः पदार्थत्वात्

कृतकत्वाद्वा जलवदिति । यथा वा घटः क्षणिकः सत्त्वादित्यादौ सत्त्वं :

हेतुः कालात्ययापदिष्ट: । अग्निरनुष्ण इत्यत्र कृतकत्वं हेतुः । तस्य च

यत् साध्यम् अनुष्णत्वम् तस्याभावः प्रत्यक्षेणैव परिच्छिन्नः (परिज्ञातः) ।

क्षणिक इत्यत्र हेतोः सत्त्वस्य यत् साध्यम् क्षणिकत्वम् तस्याभाव: अक्ष-

त्वगिन्द्रियेणाग्नेरुष्णत्वपरिच्छेदात् ( त० मा० पृ० ५० ) । घटः

णिकत्वम् प्रत्यभिज्ञया पूर्वावस्थानुभवजनितसंस्कारसहकृतेन्द्रिय
•●

पूर्वोपरकालाकलनया घटस्य स्थायित्वं परिच्छिद्यत इति तस्य हेतो-

३० न्या० को०
 
-