This page has not been fully proofread.

न्यायकोशः ।
 
२३१
 
त्मकत्वेन तस्याकाशे समवायसंबन्धेन सत्त्वेपि नाकाशेतिव्याप्तिः ( सि०
च० १ पृ० १० ) । [घ] सूर्यक्रियोपाधिवशादतीतानागतवर्तमानादि-
व्यवहारभाकू काल: ( प्र० प्र०) । [ङ ] शाब्दिकास्तु शब्दतन्मात्र-
परिणाम: काल इत्याहु: ( ल० म० लका० प० २० ) । [च ]
येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं काउमित्याहुः । तस्यैव
कयाचित्क्रियया युक्तस्याहरिति रात्रिरिति च भवति । कया क्रियया
आदित्यगया । तयैवासकृदावृत्तया मास इति संवत्सर इति च भवति
इति ( पात० म० भ० २/२/५ ) । काललक्षणं तु कालिकसंब-
न्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपितमधिकरणविधया निमित्तत्वम्
(दि० ११२ पृ० ८९) । कालिकसंबन्धावच्छिन्नाधिकरणत्वमेव
कालत्वम् इति निष्कृष्टार्थ: ( राम० १ काल० पृ० ८९)। अथवा
विभुत्वे सति कालिकपरत्वापरत्वासमवायिकारणसंयोगाश्रयत्वाद्युपाधिरूपं
कालत्वम् ( प० मा० ) । यद्वा अतीतादिव्यवहारजनकतावच्छेदकमुख्य-
● विशेष्यत्वम् ( वाक्य० १ पृ० ५ ) । कालसत्त्वे प्रमाणं चानुमानम् ।
तच्च परत्वापरत्वे सासमवायिकारण के भावकार्यत्वाद्धटवत् इति । अयं
भावः । ज्येष्ठे परत्वप्रत्ययः कनिष्ठे अपरत्वप्रत्ययः । स च परत्वापरत्वगुण-
विशेषाधीनः । परत्वापरत्वे च सासमवायिकारणके भावकार्यत्वात् ।
( दि० १ पृ० ९१ ) । तथा च ज्येष्ठत्व कनिष्ठत्वज्ञानाधीनपरत्वापरत्वा-
असमवायिकारणं च तयोः कालपिण्डसंयोग एव । तदाश्रयः काल इति
नुमेयः कालः सिद्ध: ( त० कौ० पृ० ३) । अत्र सूत्रम् अपरस्मिन्न-
परं युगपच्चिरं क्षिप्रमिति काललिङ्गानि (वै० २/२/६ ) इति । अयमर्थः ।
• इतिशब्दः प्रकारार्थः प्रत्येकमभिसंबध्यते । अपरं चिरमित्यादयः प्रत्ययाः
काललिङ्गानीति । बहुतरदिवाकरक्रियाविशिष्टशरीरज्ञानात् कालिक-
•परत्वोत्पत्तिरिति सिद्धान्तः । तज्ज्ञानं विशेषणविशेष्योभयसंबन्धघटक-
• सापेक्षं साक्षात्संबन्धाभावे सति विशिष्टज्ञानत्वात् लोहितः स्फटिकः इति
ज्ञानवत् इत्यनुमानेन तादृशसंबन्धघटकविधया कालः सिध्यति । तादृश-