2023-10-23 14:18:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२३०
 
न्यायकोश ।
 
प्राभाकरमते शक्तिग्रहप्रकारस्त्वित्थम् । प्रयोजकवृद्धेन घटमानय इत्युक्तम् ।

तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतः । तदवधार्य पार्श्वस्थो बालः घटा-

नयनरूपं कार्ये घटमानयेति शब्दप्रयोज्यम् इत्यवधारयति । ततश्च घटं

नय गामानय इत्यावापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ शक्ति

गृह्णाति इति ( मुक्ता० ४ पृ० १७६ ) ( चि० ४) । अत्र नैयादि ।

कास्तु चैत्र पुत्रस्ते जातः कन्या ते गर्भिणी इत्यादौ सिद्धार्थ

विषयकस्यापि शाब्दबोधस्योत्पत्तेर्न कार्यान्विते शक्तिः । अत एव

यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपपन्नं च तद

सुखं स्वःपदास्पदम् ॥ इत्यर्थवादोपस्थिते सुखे वेदादेव स्वर्गपदस्य ।

शक्तिग्रहः इति ( चि०४ ) । अन्वयस्य वाक्यार्थतया भानसंभवाद. ।

न्वयांशेपि शक्तिर्न कल्पनीया इति प्राहुः ( त० दी० ४ पृ० ३२ //

अत्रायं निष्कर्ष: । पदार्थसंसर्गस्य पदसमभिव्याहारबलादेव शाब्दबोध

भानसंभवात् तादृशसंसर्गांशेपि शक्तिर्न कल्पनीया इति ( नील० 8

पृ० ३२ ) ।
 
<
कार्यैक्यम्>
(संगतिः ) एककार्यानुकूलत्वम् ( राम० २ १४० १३१४)

यथा अनुमितिलक्षणैककार्यानुकूलत्वसंगत्या पक्षधर्मतां निरूपयितुमाह /

( दीधि० २ पृ० १२३ ) इत्यादौ व्याप्तिपक्षधर्म तयोरनुमितिलक्षण
 
पृ० ३२ ) ।
 

कार्यैक्यं संगतिः । इदं च एककार्यत्वमित्यप्युच्यते ।
 

 
<
काल :>
१ ( द्रव्यम् ) [ क ] विभुत्वे सति दिगसमवेतपरत्वासमवायिका

राधिकरणम् (सर्व० सं० पृ० २१९ औल० ) । तदर्थश्च दिश्य

यत् परत्वस्यासमवायिकारणम् कालपिण्डसंयोगः तस्याधिकरणद

इति । दिशि अतिव्याप्तिवारणायदिगसमवेतेति। [ख ] परापरव्यतिकर

योगपद्यायौगपद्यचिरक्षिप्रप्रत्ययकारणं द्रव्यम् ( वै० उ० ७/१/२५/

( भा० प० श्लो० ४७ ) । [ ग २५)
 
अतीतादिव्यवहार
 

( त० सं० ) । तदर्थच अतीतः भविष्यद् वर्तमानः इति प्रतीति

प्रयोजकः व्यवहारस्तस्यासाधारण निमित्तहेतुः । तेन व्यवहारस्य
 
शब्दा