This page has not been fully proofread.

न्यायकोशः ।
 
२२९
 
मात्मलाभः तत् खल्वभूत्वा भवति । यथा घटादिकार्यमनित्यमिति च
भूत्वा न भवतीत्येतद्विज्ञायते । एवमवस्थिते प्रयत्नकार्यानेकत्वादिति
प्रतिषेध उच्यते । प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम् व्यवधा-
नापोहाच्चाभिव्यक्तिर्व्यवहितानाम् । तत्किं प्रयत्नानन्तरमात्मलाभः शब्द-
स्याहो अभिव्यक्तिरिति विशेषो नास्ति । कार्याविशेषेण प्रत्यवस्थानं
 
कार्यसमः (वात्स्या० ५।१।३७ ) । [ ख ] सामान्यत उक्ते हेतोरन-
भिमतविशेषनिराकरणेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः प्रयत्नानन्त-
रीयकत्वादित्युक्ते प्रयत्नानन्तरीयकत्वं प्रयत्नकार्ये घटादौ तथा व्यवधाना-
पोहेन प्रयत्नानन्तरोपलभ्यमाने कीलकादावपि दृष्टम् । तत्र द्वितीयं न
जन्यत्वसाधकम् । आद्ये त्वसिद्धम् ( गौ० वृ० ५/११३७ ) । [ग]
वायुक्तहेतोरन्यकार्येणापि संभवाभिधानम् । यथा शब्दः अनित्यः
प्रयत्नानुविधायित्वादित्यत्र प्रयत्नानुविधायित्वमुभयथापि संभवति । घटा-
दिवच्छन्दस्वरूपोत्पत्तौ जलादिवदावरकनिवृत्तौ च । उभयत्रापि प्रयत्ना-
नुविधायित्वदर्शनात् । तथा च तस्यावरकनिवृत्तिरूपकार्यान्तरस्य संभवा-
न्नानित्यत्वनियतत्वमिति ( नील० पृ० ४५ ) । [घ ] असिद्धतां
वादिहेतोरुक्त्वा तं साधयेत्स्वयम् । तद्दूषणान्मूलहेतुभङ्गः कार्यसमो
मतः ॥ इति ( ता०र० परि० २ श्लो० १२७) । असिद्धदेशना-
भासोयम् । अस्याकृतिगणत्वात्सूत्रानुपदर्शितानामपि परिग्रहः । यथा
शाठीसमा अनुपकारसमेत्यादि ( गौ० वृ० ५ । १ । ३७ ) ।
कार्यान्वितत्वम् – कार्यताबोधक पदप्रतिपाद्यार्थात्मककार्ययुक्तत्वम् । यथा॑
प्राभाकरमीमांसकनये घटमानयेत्यादौ घटादिपदानामानयनादिरूपक्रिया-
रिति तेषां मतम् । अयमभिप्रायः । कथंचिदुपस्थितपदार्थानां शाब्द-
विशिष्ट एव घटादौ शक्तिः इत्यत्र क्रियान्वितत्वम् । अन्विते शक्ति-
• बोधवारणाय तत्तद्विषयकशाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन
हेतुतायाः कल्पनीयतया अन्वयांशेपि शक्तिरपेक्षिता । अन्यथा तादृश-
• सामान्यकार्यकारणभावभङ्गापत्तेः । एवं च अन्वितो घटपदवाच्यः
इत्याकारकशक्तिज्ञानमेव शाब्दबोधप्रयोजकम् इति (नील० ४५० ३२) ।