2023-10-23 14:14:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२२८
 
न्यायकोशः ।
 
<कार्यम्>
१ [ क ] प्रागभावप्रतियोगि ( त० सं० ) । यथा घटपटादि

सर्वम् प्रागभावभिन्नम् अनित्यजातं कार्ये भवति । अत्रायमाशयः । घटो-

त्पत्तेः पूर्वं इह घटो भविष्यति इति या प्रतीतिर्जायते तत्प्रतीतिविषयीभूतो ।

यः अभावः स एव घटप्रागभावः तत्प्रतियोगि घटादिरूपं कार्यम्

इति ( न्या० बो० १ पृ० ८ ) । [ख ] कारणपश्चाद्भावि । तच्च

द्व्यणुकत्र्यणुकादिभेदेनानन्तविधं भवति ( त० कौ० १ पृ० ३ ) ।

कार्यद्रव्यस्योत्पत्तिविनाशयोः क्रमस्तु सृष्टिशब्दप्रलयशब्दव्याख्यानावसरे

संपादयिष्यते । अत्र कार्योत्पत्तिप्रकारो मतभेदेन प्रसरति । असतः ।

सज्जायत इति सौगताः संगिरन्ते । सतोसज्जायत इति नैयायिकादयः ।

सतो विवर्त ( अधिष्ठानज्ञानेन निवर्त्यम् ) कार्यजातम् न वस्तुसदिति ।

मायावादिनो वेदान्तिनः । सतः सज्जायत इति सांख्याः ( सर्व० सं०

पृ० ३२१ सांख्य० ) । तस्यायमाशयः । अत्र कल्पचतुष्टयं भवति ।

असतः सत् असतोसत् सतः सत् सतोसत् इति । तत्र द्वितीयकल्पो

नैव संभवति । तृतीयकल्पे पक्षद्वयं संभवति । सतः सकाशाद्याव.

हारिक सत् सतः सकाशात्पारमार्थिकं सदिति । तत्राद्यः पक्षो माया-

वादिनां वेदान्तिनाम् । अन्त्यस्तु सांख्यानाम् । तत्र असतः

सौगता बौद्धाः । उत्पत्तेः पूर्वमविद्यमानं कार्य सतः कारणाज्जायत इ

वादिनां सौगतानामयमाशयः । असतः कारणात्सत्कार्य जायत इति ।

नैयायिकानामाशयः । मायावादिनां वेदान्तिनां सांख्यानां चाभिप्राय
 

एव । विस्तरस्तु सवदर्शनसंग्रहटीकायां ( पृ० ३२१ ) द्रष्टव्यः ।
२ यागा
दिति
 
कृतिसाध्यमपूर्व कार्यमिति प्राभाकराः / ३ आदिश्यमानो
वर्णादिः कार्यमिति शाब्दिकाः ।
 
एव । विस्तरस्तु सवदर्शनसंग्रहटीकायां ( पृ० ३२१ ) द्रष्टव्यः ।
२ यागादिकृतिसाध्यमपूर्व कार्यमिति प्राभाकराः / ३ आदिश्यमानो
 
४ आरोग्यं कार्यमिति भिषजः /
 
कार्यसमः
 
मिति व्यवहारज्ञाः । ७ प्रयोजनमिति काव्यज्ञा वदन्ति ( वाच० ) /

जन्मलग्नावधि दशमस्थानं कार्यमिति ज्योतिषज्ञाः । ६ उद्देश्यं कार्य
-

मिति व्यवहारज्ञाः । ७ प्रयोजनमिति काव्यज्ञा वदन्ति ( वाच० ) /
 
<कार्यसमः>
( जाति: ) [ क ] प्रयत्नकार्यानेकत्वात्का[^१]र्यसमः ( गौ५
३७ ) । प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति । यस्य प्रयत्नानन्तर
 
[^

] अत्र क्वचित् कारणसमेति पाठः । तस्याप्ययमेवार्थ: ( नील० पृ० ४५) ।
३७ ) । प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति । यस्य प्रयत्नानन्तर