न्यायकोशः /281
This page has not been fully proofread.
न्यायकोशः ।
२२७
२ उद्देश्यम् । यथा तस्यागमनकारणम् इत्यादौ कारणमुद्देश्यम् ।
प्रयोजनं फलं वेत्यर्थः । फलस्य कारणत्वं चेच्छाद्वारा । उपायेच्छां प्रति
फलेच्छायाः कारणत्वात् । सर्वो हि लोकः फलमिच्छन्नेव तदुपाये प्रवर्त-
मानो दृश्यते इति तस्य तथात्वं बोध्यम् ( वाच० ) । ३ समस्त सृष्टि-
संहारानुग्रहकारि कारणम् ( सर्व० सं० पृ० १६८ नकुली ० ) ।
कारुण्यम्-
-१ स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा । यथा परमेश्वरस्य जग-
निर्माणे करुणया प्रवृत्तिः (सर्व० सं० पृ० २२५ अक्ष० ) । २ करु-
णाविषयत्वम् । यथा दयासमुद्रे स तदाशयेतिथीचकार कारुण्यर
गिरः (नैष०) इत्यादौ ( वाच० ) ।
कार्पण्यम्-(दोषः) उचितव्ययाकरणेनापि धनरक्षणेच्छा (गौ० दृ०
४ । १ । ३ ) । यथा कृपणो धनाढ्य इत्यादौ । कार्पण्यमपि तृष्णाप्रमेद
एव (गौ० वृ० ४ । १ । ३ ) ।
-
कार्मिकम् – कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं
चित्रं सूत्रैः क्रियते तत्कार्मिकमित्युच्यते ( मिताक्षरा २।१८० ) ।
कार्यकारणभावः – यत्किचिन्निष्ठ कार्यतानिरूपित कारणत्व यत्किंचिनिष्ठा-
रणतानिरूपितकार्यत्व एतदन्यतरात्मको धर्मः । यथा कार्यकारणभावाद्वा
स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान न दर्शनात् ॥
इत्यादौ धूमधूमध्वजयोः कार्यकारणभावः ( सर्व० सं० पृ० १६
बौद्ध० ) । अत्र व्युत्पत्तिः कार्य च कारणं च तयोर्भावः इति द्रष्टव्या ।
अयं च हेतुहेतुमद्भाव इत्यप्युच्यते । एकस्य स्वकारणापेक्षया कार्यत्वे
तदपेक्षया चान्यस्य कारणत्वम् इति ( वाच० ) । अत्रेदं बोध्यम् ।
कार्योत्पत्तिनिश्चयेनाविनाभावो निश्चीयते । तदुत्पत्तिनिश्चयश्च कार्यहेत्वोः
प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः । तथाहि कार्यस्योत्पत्तेः प्रागनुप-
लम्भः कारणोपलम्भे
सत्युपलम्भः उपलब्धस्य पश्चात् कारणानुपलम्भा-
दनुपलम्भः इति पञ्चकारण्या धूमधूमध्वजयोः कार्यकारणभावो निश्चीयते
(सर्व० सं० पृ० १७ बौद्ध० ) इति ।
4