2023-10-23 12:01:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२२६
 
न्यायकोशः ।
 
रासभसामान्ययोरपि कार्यकारणभावापत्तिः । तद्वारणाय असति बाधके

इत्युक्तम् । तथा च तत्रान्यथासिद्धत्वरूपबाधकसत्त्वेन न तयोः कार्य-

कारणभावः इति । कारणं तावत् द्विविधम् । मुख्यम् अमुख्यं च ।

तत्र घटादिकं प्रति मृदादिकं कपालादिकं वा मुख्यम् । यथा वा ।

अभाव प्रत्यक्ष इन्द्रियम् अनुमितौ च परामर्शः इत्यादि मुख्यं कारणं ।

भवति । मुख्यभिन्नं त्वमुख्य कारणम् । तच्च सहकारिकारणमुच्यते ।

यथा अभावप्रत्यक्षे योग्यानुपलब्धिः अनुमितौ च सहचारज्ञानं कारणम् ।

अमुख्यं भवति । मुख्यमपि न्यायमते त्रिविधम् । समवाय असमवापि

निमित्तं चेति । तत्र घटादिकं प्रति कपालादिकं समवायिकारणम् ।
 

कपालद्वयसंयोगादि असमवायिकारणम् । दण्डादयो निमित्तकारणानि ।

इति । अत्रेदं बोध्यम् । एतत् त्रिविधं कारणम् भावकार्याणामेवास्ति ।

न त्यभावस्य । ध्वंसस्य तु निमित्तकारणमात्रम् । ध्वंसस्य समवायाभावेन ।
 

समवाय्यसमवायिनोरभावात् इति ( प्र० प्र० १ पृ० २ ) । इंदं च ।

कारणत्रयम् भावकार्यस्यैव । अभावस्य तु निमित्तमात्रम् इति तर्कदीनि

कायामप्युक्तम् । अत्रायं नियमः । समवायिकारणं द्रव्यमेव

असमवायिकारणं तु गुणः कर्म च भवति । असमवायिकारणं गुण

११ कर्मातिरिक्तं न भवतीत्यर्थः (वै० १०/२/१ - ६ ) (मु० १५०

इदं च बोध्यम् । समवायिकारणासमवायिकारणे असाधारणे स

कारणे भवतः । निमित्तकारणं तु साधारणासाधारणमेदेन द्विविधम

प्यस्ति । तत्र साधारणनिमित्तकारणानि चाष्टविधानि । ईवा तज्ञा।
 

 
५६//
 
A
 
8
 

नेच्छाकृतयः दिक्कालौ अदृष्टम् (धर्माधर्मो ) प्रागभावश्चेति ।
'प्रतिबन्धक
संसर्गाभावस्तु कार्यमा प्रति साधारणं निमित्तकारणमेव ।
स च
प्राचीननैयायिकानां मते प्रागभावप्रध्वंसअत्यन्ताभावएतत्रयम् ।
मयि
कारादीनां नव्यनैयायिकानां मते तु अत्यन्ताभाव एव इति विदेश
 
'प्रतिबन्धक
 
मणि
 
1 STOP
 
अभावत्य
 

( दि० १ मङ्ग० पृ० ११) । मायावादिवेदान्तिनस्तु
 
अभावत्य
कारणत्वं नेच्छन्ति । असाधारणनिमित्तकारणानि तु
 
कार्यभेदेनानेक
विधानि । अमुख्य कारणं तु असाधारणं निमित्तमेव अनेकधा
 
कार्यभेदेना
 
चौत/
 
चेति।