This page has not been fully proofread.

ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः ।
 
शस्तपादाचार्यस्य ) 'प्रशस्तदेव: प्रशस्तचरणः' इति नामान्तरे । गौतम-
वात्स्यायनयोरिव समानतन्त्रत्वेन कणादप्रशस्तपादयोरपि परमर्षित्वम् क
पिल-पञ्चशिखाचार्ययोरिवाचार्यत्वं च उदयनाचार्य-कन्दलीकार- शंकर मिश्रा-
दयः स्वीचक्रुः इति ।
 
-
 
२६
 
( ५ ) उद्योतकराचार्यो न्यायसूत्राणां वार्तिकमकरोत् । अयं च इतो
वर्षाणां द्वादशशत्याः ( १२०० ) पूर्वमासीत् । 'अयं च भारद्वाजगोत्रज : '
इति केचिदाहुः । तत्र मया संदिह्यते 'अयं च इतो द्वादशशत्याः पूर्व
कदासीत्' इति मया न ज्ञायते च इति ।
 
( ६ ) वाचस्पतिमिश्रंश्च न्यायवार्तिक ग्रन्थस्य व्याख्यानं A न्यायवार्ति-
कतात्पर्यम्, B न्यायकणिकाम्, C परिशिष्टव्याख्यानं चाकरोत् इति ।
 
..
 
( ७ ) शिवादित्य मिश्रश्च 'न्यायाचार्यः' इति स्तूयते । अयं च 'व्योम-
शिवाचार्यः' इति केचिद्वदन्ति । शिवादित्य मिश्रस्तु 'सप्तपदार्थी' नामानं प्र-
न्थमकरोत् इति ।
 
( ८ ) उदयनाचार्यश्च विक्रमीय ( ८४५ ) वर्षादुत्तरं (१०४८ ) व-
८ वार्तिकलक्षणं च – "उक्तानुक्तद्विरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्तिकं
प्राहुर्वार्तिकज्ञा मनीषिणः" ( पराशरपुरा० अ० १८ ) इति ।
 
९ 'अयं वाचस्पतिमिश्रः तत्त्वचिन्तामणिप्रकाशकृतो वाचस्पतिमिश्रादय एव' इति
केचित्पण्डिता आहुः । अयं वाचस्पति मिश्रः 'शंकरभारतीकृतशारीरकमीमांसाख्यभा-
व्यस्य भामत्याख्यव्याख्याकार एव' इति बहवो मन्यन्ते । अन्ये तु - 'अयं वाचस्पतिस्तु
भामतीकारादन्य एव भामतीकारश्चान्यः कञ्चन वेदान्तशास्त्रज्ञ आसीत्' इत्याहुः ।
 
१० 'इदं परिशिष्टं तु उदयनाचार्यकृतम्' इति केचिद्वदन्ति । अन्ये तु - इदं परि-
शिष्टं 'न्यायकलिकापरिशिष्टमेव' इत्यमन्यन्त ।
 
११ व्योमशिवाचार्यस्तु प्रशस्तपादकृतभाष्यस्य टीकारूपं व्योमवती - नामानं ग्रन्थं
 
कृतवान् ।
 
१२ 'उदयनाचार्येण सह जैनानां विवादः समजान । अवशिष्टनास्तिकानां मूलोच्छेद -
श्श्रोदयनेन कृतः' इति जैनग्रन्थाकलनादवगम्यते । उदयनाचार्यः श्रीहर्षपितुः श्रीहीरस्य
समानकालिकः । 'श्रीहर्षस्तु (शके ८८९ ) वर्षे आसीत्' इति नैपघटीकयाऽवगम्यते ।
केचित्तु -'खण्डनग्रन्थेन च श्रीहर्षात्पूर्व एवोदयन इत्यवगम्यते' इत्याहुः । यस्तु रत्नाव-
-