2023-10-23 08:10:34 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२२०
 
न्यायकोशः ।
 
ग्रामं गच्छति घटं पश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयत इत्यादौ

च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्यादुपस्थापितो विभागादिः प्रकारी

भूय भासत इति तत्तद्धातूपस्थापिततत्तत्क्रियायां विभागादिकं प्रकृते

कारकम् । [ख] यादृशेन नामार्थेनावच्छिन्नस्य सुबर्थस्य या

धात्वर्थेन्वयः स तादृशधात्वर्थे कारकतया व्यपदिश्यते । तेन वृक्षात्पत

तीत्यादौ वृक्षारपि पतनादिक्रियायामपादानत्वादिकारकव्यवहारः । [ग]

क्रियाप्रकारीभूतोर्थः कारकम् इति शाब्दिकाः स्मरन्ति ( श० प्र० ।

श्लो० ६६ पृ० ७७) । [घ ] कारकत्वं च क्रियान्वितविभत्तय

न्वितत्वम् । अस्ति च कर्मादौ क्रियान्वितसुबिभत्तयर्थान्वय इति ।

लक्षणसमन्वयः । चैत्रस्य तण्डुलं पचतीत्यादौ तु संबन्धिनि चैत्रादो

षष्ठ्यर्थसंबन्धस्य तण्डुलादिनामार्थान्विततया क्रिया नन्वितत्वान्नातिव्याप्तिः ।

चैत्रस्य पचतीत्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः । षष्ठ्यर्थसंबन्धस्य

नामार्थेनैव तथा क्रियायाः कर्मत्वादिनैव साकाङ्क्षतया परस्पराकाहा

विरहात् । ओदनस्य पक्ता मैत्रस्य पाकः इत्यादौ कर्मत्वकर्तृत्वार्थिका ष

कारकविभक्तिरेव । कर्तृकर्मणोः कृति (पा० सू० २/३/६५) इत्यनेन

तद्विधानात् । अत एव संबन्धस्य न कारकत्वम् । क्रियायोगाभावात् ।[

क्रियाप्रकारीभूतोर्थः कारकं तच्च षड़िधम् । कर्तृकर्मादिभेदेन शेषः संबन्ध ।

इष्यते ॥ इति शाब्दिकाः वदन्ति । अत एव गुरुविप्रतपस्विदुर्गान

प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादौ सा लक्ष्मीरुपकुरुते यथा

इत्यादौ च रोगे विपत्तौ इत्यादिनाम्नोः यथाक्रमम्
 
परेवार अध्याहारेव
बोधः । अयं भावः । अत्र षष्ठ्यर्थसंबन्धस्याध्याहृतनामार्थेनैवान्वयः "
 
परेवार
अध्याहारेव
 
สุด
 

 
MARK
 

क्रियया इति नात्र कारकषष्ठी इति ( का० व्या० पृ०
 
१) ।
 
अत्र
 
षष्ट्यर्थ
 

गदाधरभट्टाचार्यास्तु रोगे इति पदस्य नाध्याहारः कर्तव्यः । '
 

संबन्धस्य धात्वर्थेन्वयेपि नेयं कारकविभक्तिः
 
किंतूपपदविभक्ति
 

रेवेत्याहुः (ग० व्यु० का० २ ख० २ पृ० ५६ ) । यदि भा

क्रियान्वित कर्तृत्व कर्मवादिषट् कान्यतमान्वयित्वम् कारकत्वं बोध्याय /

हारमन्तरा क्रियायां षष्ठ्यर्थसंबन्धान्वयः प्रामाणिकः तदा /4/