न्यायकोशः /273
This page has not been fully proofread.
न्यायकोशः ।
२१९
कादाचित्कत्वम् – [ क ] सत्वे सति किंचित्कालवृत्त्यभावप्रतियोगित्वम् ।
( आत्मत• शिरो० ) । यथा अनादिश्चेत्कार्यकारणप्रवाह: कादाचित्क-
त्वान्यथानुपपत्त्या कल्प्यः ( कु० टी० हरि० ) इत्यादौ । [ ख ]
प्रागभावप्रतियोगित्व ध्वंसप्रतियोगित्व एतदन्यतरवत्त्वम् ( बौ० शि० )
( वाच० ) । यथा घटपटादेरनित्यजातस्य कादाचित्कत्वम् । अत्र
अन्यतरनिवेशेन च ध्वंसे प्रागभावप्रतियोगित्वस्य प्रागभावे च ध्वंस-
प्रतियोगित्वस्य सत्त्वान्नाव्याप्तिः । नित्ये तु तदुभयासत्त्वान्न प्रसङ्गः
(बौद्ध० शि० ) ।
कामः - त्रयोदशी । यथा नागविद्वा तु या षष्ठी रुद्रविद्धो दिवाकरः ।
कामविद्धो भवेद्विष्णुर्न ग्राह्यास्ते तु वासराः ॥ (पुरु० चि० पृ० १०० )
इत्यादौ कामशब्दस्यार्थः ।
कामरूपित्वम् – कर्मादिनिरपेक्षस्य स्खेच्छयैवानन्तसलक्षणविलक्षणसरूप-
करणाधिष्ठातृत्वम् ( सर्व० सं० पृ० १६७ नकुली० ) ।
काम्यत्वम् - [क] अभिलाषविषयत्वम् ( मु० गु० पृ० २२० ) ।
• यथा सुखं तु जगतामेकं काम्यं धर्मेण जन्यते ( भा० प० गु०
श्लो० १४६ ) इत्यादौ सुखस्य काम्यत्वम् । [ख ] फलेच्छाधीनेच्छा-
. विषयत्वम् । [ग] फलकामनाधीनकर्तव्यताकत्वं वा । यथा भोजना-
देर्ज्योतिष्टोमादेश्च काम्यत्वम् (त० प्र० ४ पृ० १०३) । [घ आरब्ध-
• कर्मोत्पत्तिकामनाधीनकामनाविषयत्वम् इति केचित् ( मू० म० १ ) ।
कायिकः - (नमस्कारः) करशिरः संयोगाद्यनुकूलचेष्टाविशेष: (मू० म० १
मङ्ग० पृ० १०५ ) । यथा देवदत्तः कराभ्यां यज्ञदत्तं नमस्करोतीत्यादौ
wala
कायिको नमस्कारः ।
कारकम् - [क] यद्धातूपस्थाप्ययादृशार्थे अन्वयप्रकारीभूय भासते यः
• सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायो कारकम् । यथा वृक्षात्पतति
१ व्याघ्राद्विभेतीत्यादौ ब्राह्मणाय ददाति पुत्राय क्रुध्यतीत्यादौ दात्रेण
छिनत्ति घटत्वेन जानातीत्यादौ स्थाल्यां पचति शुक्तौ भासत इत्यादौ