2023-10-23 08:07:28 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२१८
 
न्यायकोशः ।
 
२ अर्थापत्तिरिति मीमांसका वेदान्तिनचाहुः । ३ आरोप इति माया-

वादिनः । ४ रचना ५ विधानं चेति काव्यज्ञा आहुः ( वाच० ) ।

 
<
कल्याणम्>
सत्यार्जवदयादानादीनि कल्याणानि ( सर्व० सं० पृ० १२४

रामा० ) ।
 

 
<
कल्याणी - >
चतुर्वर्षा कन्या । कुमारिका द्विवर्षा तु त्रिवर्षा च त्रिमूर्तिनी ।

चतुर्वर्षा तु कल्याणी पञ्चवर्षा तु रोहिणी ॥ षड्वर्षा तु
 
भवेत्काली
 

सप्तवर्षो तु चण्डिका । अष्टवर्षा शांभवी तु दुर्गा तु नवमी स्मृता ॥

दशवर्षा सुभद्रेति नामभिः परिकीर्तिताः ( पु० चि० पृ० ६८ ) ।

 
<
कषाय: - >
कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः क्रोधो मानो।
 
-
 

माया लोभश्च ( सर्व० सं० पृ० ७४ आर्ह ० ) ।

 
<
काणः>
[क] चक्षुःशून्यगोलकवखे सति सचक्षुर्गोलकवान्
.

अक्षणा काण इत्यादौ । अत्र गोलकार्थकाक्षिपदोत्तरतृतीयाया विकतत्व ।
..

वृत्तिमत्त्वं चार्थः । तत्राद्यं विकृतत्वं संबोध्यत्वमिव प्रकृत्यर्थे विशेषण

विधयान्वेति । चरमं वृत्तिमत्त्वं तु प्रकृत्यर्थनिरूपितं सत् काणत्वैकदेशे

चक्षुःशून्यत्वेन्वेति । तथा च विकृतगोलकवृत्तित्वविशिष्टं यच्चक्षुःशून्य

तद्वद्गोलकवान् सचक्षुष्कः इत्याकारस्तत्र बोध: ( श० प्र० पृ० ११८)।

सचक्षुष्कः । अक्षणा काण इत्यादौ तादृशे विनाशे अक्षिपदस्यार्थत्य

[ख] स्वाधिष्ठानवृत्तित्वसंबन्धेन चक्षुःशून्यो यश्चक्षुर्विनाशः तद्वान

गोलकस्य विकारप्रयुक्तत्वं तृतीयया बोध्यते । तथा च गोलकविकार

इत्याकारो बोध: ( श० प्र० पृ० ११८ ) । [ग] शाब्दिक

प्रयुक्तस्य निरुक्तसंबन्धेन चक्षुःशून्यस्य चक्षुर्नाशस्याश्रयः सचक्षुष्का

चक्षुनोशवान् सचक्षुष्कः । यथा अक्ष्णा काण इत्यादौ इत्या

( ल० म० सुब० पृ० १०० ) । अत्र येनाङविकारः (पा० सू०

२।३।२० ) इत्यनेन तृतीया । विकारस्तु कनीनिकाद्यपगमः

संस्थानवत्त्वं वा । तथाच अक्षिपदार्थो गोलकम् । गोलकविकारप्रयुक्त

चक्षुनोशवान् सचक्षुष्कः इति बोधः ( ल० म० सुब० पृ० १००/
 
)।
[घ ] लेशतोपि दर्शनसामर्थ्यहीनः काणः (श० शे० का
 
५०
 
-
 
220
 
CATE
 
PE
 
अयथा
 
० पृ० १८९)/