This page has not been fully proofread.

न्यायकोशः ।
 
२१७
 
कर्षणम्–१ [ क ] गत्यवच्छिन्नविकर्षणम् । यथा शाखा ग्रामं कृष्यत
इत्यादौ कृषेरर्थः । अत्र ग्रामकर्मकगत्यवच्छिन्नविकर्षणकर्मताश्रयः शाखा
इत्याकारको बोध: ( श० प्र० पृ० १०५ ) । [ ख ] देशान्तरसंयो-
गानुकूलव्यापारानुकूलव्यापारः । यथा ग्राममजां कर्षतीत्यादौ कर्षणम्
(बाच ० ) । अत्र अस्य कृषधातोः व्यापारद्वयबोधकतया कर्तुरीप्सिततमं
कर्म (पा० सू० १।४।४९) इत्यनेन द्विकर्मकत्वम् । एकव्यापारबोधकत्वे
तु अकथितं च ( पा० सू० १।४।५१ ) इत्यनेन प्रामादेः कर्मत्वम् ।
अत्र प्रधाने कर्मण्येव वाच्ये लकारादयः । यथा अजा ग्रामं कृष्यते इति ।
तत्रोक्तं हरिणा गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् इति ।
२ विलेखनम् । तदर्थश्च विदारणम् । अत्रार्थे कृषधातोर्न द्विकर्मकतेति भेदः ।
कला – (कार्यम् ) चेतनपरतन्त्रत्वे सत्यचेतना कला ( सर्व० सं० १०
१६८ नकुली ० ) ।
 

 
कलिकापूर्वम् - (अपूर्वम् ) परमापूर्वजनकः अङ्गजन्यः अपूर्वविशेषः । यथा
● उत्पत्यपूर्वाणि ( दि० गु० पृ० २३५ ) ( चि० ४) (मू०म० )।
अत्र कलिकया अंशेन जन्यम् अपूर्वम् इति व्युत्पत्तिर्दृष्टव्या ( वाच० ) ।
उत्पस्यपूर्वाणि च पञ्चभिर्वाक्यैर्विहितेभ्यः षड्भ्य आग्नेयादिभ्य
उत्पन्नानि षट् सन्ति । तत्र पञ्च वाक्यानि तु यदाग्नेयोष्टाकपालोमा-
वास्यायां च पौर्णमास्यां चाच्युतो भवति ( तै० सं० २।६।३।३)
उपांशु याजमन्तरा यजति ( तै० सं० २६/६/४ ) ताभ्यामेतमग्नीषो-
मीयमेकादशकपालं पूर्णमासे प्रायच्छत् ( तै० सं० २/५/२/३ ) ऐन्द्रं
दध्यमावास्यायाम् (तै० सं० २२५/४/१९) ऐन्द्रं पयोमावास्यायाम्
इति ( दि० गु० पृ० २३५ ) । अत्र आमेयाष्टाकपाकयाग
www
ऐन्द्रदधियाग ऐन्द्रपयोयाग एतत्रयं दर्शस्य । आग्नेयाष्टाकपालय
उपांशुयाग अग्नीषोमीयैकादशकपालयाग एतत्रयं पौर्णमासस्य इतम्
 
( मू० म० ४ ) ( वाच० ) ।
 
K
 
• कल्पनम् – १ अनुमानवदस्यार्थोनुसंधेयः ( दि० १ ) (नील० ) ।
 
२८ न्या० को०