This page has not been fully proofread.

ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः ।
 
महेश्वरनियोगप्रसादावधिगम्य वैशेषिकदर्शनं प्रणिनाय । वैशेषिकदर्शने चा-
ध्यायदशकम् । प्रत्यध्यायमाह्निकद्वयम् । वैशेषिकदर्शनस्य सूत्राणि तु सप्त-
त्यधिकानि त्रीणि शतानि ( ३७०) इति ।
 
( ३ ) वात्स्यायनः परमर्षिर्न्यायसूत्राणां भाष्यमकरोत् ।
 
( ४ ) प्रशस्तपादाचार्यश्च वैशेषिकसूत्राणां भाष्यमकरोत् । अस्य (प्र-
किं च - - वैशेषिके दर्शनेऽनुमानस्य संक्षेपतो वर्णनात् हेत्वाभासस्य त्रैविध्यकथ-
नावेति 'पूर्व कणादेन पूर्वोक्तविषयस्य रीतिः समुद्भाविता । ततोऽनन्तरमक्षपादेन
विस्तारिता सम्यनिबद्धा च । समानतन्त्रे वैशेषिके प्रतितन्त्र सिद्धान्तसिद्धं नैयायिक
मनस इन्द्रियत्वम्' इति वैशेषिकदर्शनस्य न्यायदर्शनादपि प्राचीनत्वमप्यवगम्यते इति ।
तदेतत्केषांचित्प्रकल्पनं चादूरदर्शित्वेन 'कहां रामराज, कहां पोतराज' इति प्राकृतन्या-
यसमाकलितम् इत्यतो वयं सकलसूत्रशास्त्रतात्पर्याकलनादित्यं प्रतीमः-
महाभारतप्रति-
पादित उलूकर्षिरस्मादुलूकनाम्नः कणादाद्भिन्न एव । 'महद्दीर्घवद्वा' इत्यादिब्रह्मसूत्राणां तु
अनादिसिद्धवैशेषिकमतखण्डनपरत्वमेव न त्वर्वाचीनकणादर्षित्रणीतसूत्रार्थखण्डनपरत्वम्।
एवमेव जैमिनिमीमांसादर्शनस्यापि तात्पर्यमुन्नेयम् । रावणस्तु कश्चनार्वाचीन ब्राह्मण एव
न तु श्रीरामद्वेष्टा रामायणप्रतिपाद्यः पौलस्त्यः इति । न केवलं हेत्वाभासत्रैविध्यरूपसं-
क्षेपकथनेनैव न्यायदर्शनात्प्राचीनत्वं कणाददर्शनस्य संभवति । यतो विपरीतमपि वक्तुं
शक्येत । तथा हि — 'न्यायदर्शने हेत्वाभासानां पञ्चत्वं प्रथमतः प्रतिपादितम् तदनन्तरं
कणादेन पञ्चत्वं परित्यज्य हेत्वाभासस्य युक्त्या संक्षेपतो वा त्रैविध्यं प्रतिपादितम्' इत्यपि
वक्तुं शक्यते इति । तस्मात् 'ब्रह्मसूत्रम् जैमिनिमीमांसासूत्रम् न्यायसूत्रम् वैशेषिक
सूत्रम् सांख्यसूत्रम् योगसूत्रम्' इत्येवं क्रमेण सूत्राणि संबभूवुः इति ममाभिमतिः।
४ 'दर्शनान्तरकारैरनङ्गीकृतस्य 'विशेष' पदार्थस्याङ्गीकारादस्य वैशेषिकतया प्रसिद्धिः
इति केचिदन्ति । वस्तुतस्तु — "द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न
स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः" इति ।
 
-
 
५ भाष्यलक्षणं च "सूत्रार्थो वर्ण्यते येन पदैः सूत्रानुसारिभिः । खपदानि च वर्ण्यन्ते
भाष्यं भाष्यविदो विदुः" इति ।
 
६ केचित्तु - बौधायनसूत्रे प्रवराध्याये आशिरसगणान्तःपातिशारद्वतगणे पठितः
'प्रशस्तः' इत्येनममन्यन्त । अन्ये तु – 'प्रवररत्न' ग्रन्थे आङ्गिरसगणे गौतमवर्गे पठितः
'प्रशस्तः' इति प्रशस्तनामानमेनं मेनिरे ।
 
७ अत्र – 'वैशेषिकसूत्राणां भारद्वाजवृत्तिर्गङ्गाधरकविरत्नकविराजकृताऽस्ति' इति
श्रूयते । अन्ये तु—– भारद्वाजनाम्नोयोतकराचार्येणेयं वृत्तिः कृता इत्याहुः । अन्येतु--
'उद्योतकराचार्यस्यैव 'भारद्वाज' इति नाम तेन कृता वृत्तिर्भारद्वाजवृत्तिः' इति मन्यन्ते ।
4 न्या. को.