This page has not been fully proofread.

२१४
 
न्यायकोशः ।
 
ब्रीहीन् प्रोक्षतीत्यादौ ब्रीहेः कर्मत्वम् । तेन ब्रीहीन् प्रोक्षतीत्यादौ ब्रीहेः
प्रोक्षणफलीभूतातिशयानाश्रयत्वेपि न कर्मत्वानुपपत्तिः ( न्या० सि०
दी० पृ० १९ ) । एवमात्मनात्मानं जानातीत्यादावप्यूह्यम् ।
 
कर्मधारयः—( समासः ) [ क ] तत्पुरुषः समानाधिकरणः कर्मधारयः
(पाणि० १।२।४२ ) । अत्रेदं बोध्यम् । कर्मधारये विशिष्टार्थेन
शक्तिने वा लक्षणा । ताभ्यां विनापि विवक्षितान्वयबोधोपपत्तेः इति
( चि० ४) । शाब्दिकास्तु समासमात्रे विशिष्टार्थेतिरिक्तां शक्तिं कल्पयन्ति ।
[ख] क्रमिकम् अव्यवहितम् यन्नामद्वयम् एकस्य नाम्नोर्थे धर्मिणि तादा
त्म्येनापरनाम्नोर्थस्यान्वयबोधं प्रति समर्थम् तादृशनामद्वयं कर्मधारयः ॥
यथा नीलोत्पलमित्यादावुत्पलादिपदस्यार्थे नीलादिपदार्थस्य
नान्वयः । तथा पुरुषसिंह इत्यादावपि पुरुषादावुत्तरपदलक्ष्यस्य सिंहा
दिसदृशस्य तादात्म्येनान्वयः। कुम्भस्य समीपम् इत्यर्थकस्तु
 
519
 
उपकुम्भादिः
 
न तादात्म्येनान्वयबोधकः इति तत्र नातिप्रसङ्गः (श० प्र० पृ० ४१ ) /
पुरुषसिंह इत्यादौ पुरुष: सिंह इव इत्यादिविग्रहे प्रायेणोपमेयस्योपमानः ।
• उपमानानि सामान्यवचनैः (पा० सू० २/३/५५ ) इत्यनेन कर्मधा
रयोनुशिष्यते ( श० प्र० पृ० ४१ ) । [ग] समासप्रयुक्तलक्षणाशून्य /
तुल्यार्थकोभयनामकसमासः । यथा नीलोत्पलमित्यादौ कर्मधारयः ।
पञ्चमूलीयादावपि तुल्यार्थको भयनामकत्वसत्त्वात्तद्वारणाय समासप्रयुक्त
लक्षणाशून्येति नामविशेषणम् । धवखदिराविति द्वंद्ववारणाय तुल्यार्थ-
केति नामविशेषणम् । नीलोत्पलमित्यत्र यद्यपि नीलपदे नीलगुणाश्रये
 
अत्र
 

नाव्याप्तिः ।
प्र
 
निरूढलक्षणा तथापि तस्याः समासप्रयुक्तत्वाभावात्
द्वयस्य तुल्यार्थत्वाच्च लक्षणसमन्वयः संभवति इति ज्ञेयम् ( म०
पृ० ४४ ) । स्तोकपक्ता इत्यादौ क्रियाविशेषणैः कर्मधारय एव
महाकविर्महाविज्ञः इत्यादौ कवित्वादाविव प्रकृतेप्यनेकनामायैक
देशे पचनादावपरनामार्थस्याभेदान्वयबोधकतया कर्मधारयत्वस्य
वात् । स्तोकं पक्ता इत्यादौ अमस्तादात्म्यवाचित्वे तु तत्पुरुषः
त्येव । क्रियाविशेषणैः समास एवाव्युत्पन्नः इति तु न
 
नाम
 
सभ
 
संभव
 
1
 
देश्यव