2023-10-23 07:48:09 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२१३
 
S
 
समवेतेति क्रियाविशेषणम् ( म० प्र० पृ० ६ ) । ग्रामं गच्छ-

तीतिवत् स्वं गच्छतीति प्रयोगवारणाय परसमवेतत्वमपि द्वितीयार्थ

इष्यते ( ग० व्यु० का २ पृ० ४९ ) । गमिपत्योः पूर्वदेशे त्यजेरु-

त्तरदेशे स्पन्देश्च पूर्वोत्तरयोः कर्मत्ववारणाय धात्वर्थेति ( ल० म० सु०

पृ० ९० ) । [ग] शाब्दिकास्तु कर्तृगतप्रकृतधात्वर्थव्यापार प्रयोज्य-

तदनधिकरणवृत्ति प्रकृतधात्वर्थफलाश्रयत्वम् ( वै० सा० द० पृ०

१५३ ) । [घ] व्याकरणशास्त्रबोधित कर्मसंज्ञकत्वं कर्मत्वम् ( उ०

म० सुब० पृ० ८५ ) । तेन अधिशय्यते प्रासादः इत्यादौ कर्मणि

लकारोपपत्तिः। अधिशेतेः कर्मसंज्ञाविशिष्टान्वितस्वार्थबोधकत्वादित्याहुः

( वाच० ) [ङ ] प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्व-

र्थफलाश्रयत्वेनोद्देश्यत्वम् । इदमेव कर्तुरीप्सिततमं कर्म (पाणि ०

१॥ ४ ॥४९ ) इत्यत्र ईप्सिततमत्वं बोध्यम् । गां पयो दोग्धीत्यादौ

पयोवृत्तिर्यो विभागस्तदनुकूलो व्यापारो गोवृत्तिः । तदनुकूलश्च गोष-

वृत्तिः। अत्र यसः कर्मध्वसिद्धये प्रयोज्यत्वनिवेशः । जन्यत्वनिवेशे तु

तन्त्र स्यात् । जन्यत्वं हि साक्षादेव । प्रयोज्यत्वं तु साक्षात्परंपरासाधा-

रणम् । प्रयागात्काशीं गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्रकृत-

धात्वर्थफलेति । न हि विभागः प्रकृतधात्वर्थ: । किंतु नान्तरीयकतया

गमने सति उत्पद्यते । प्रयागस्य फलाश्रयत्वेनानुद्देश्यत्वाच्च । ननु

प्रकृतधात्वर्थस्य ग्रहणेनैवात्र वारणादुद्देश्यत्व निवेश: किमर्थ इति चेन्न ।

तस्यासाधारणं प्रयोजनं काशीं गच्छन्पथि मृत इति । अत्र हि काश्याः

फलाश्रयत्वाभावेपि फलाश्रयत्वेनोद्देश्यत्वात्कर्मत्वम् । ननु काशीं गच्छति

चैत्रे चैत्र: काशीं गच्छति न प्रयागम् इति प्रयोगानुपपत्तिः । प्रयागस्य

फलाश्रयत्वेनोद्देश्यत्वाभावादिति चेत् उच्यते । कर्मलक्षण ईप्सिततम-

पदस्य स्वार्थविशिष्टयोग्यताविशेषे लक्षणा । तथा च प्रकृतधात्वर्थप्रधानी-

भूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वयोग्यताविशेषवं
 

कर्मत्वम् । तच्च प्रयागस्याप्यस्तीति कर्मत्वं सुलभम् । [च ] न्याय-

सिद्धान्तदीपिकायां तु करणव्यापारविषयकारणत्वं कर्मत्वम् । यथा