2023-10-22 16:54:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२०९
 
अत्र गौणकर्मणि गवादौ लादयः ( ल० म० सुब० पृ० ९१ ) । शब्द-

शक्तिप्रकाशिकाकृतस्तु गां दोग्धि पय इत्यादौ प्रधानकर्म गौः पयस्त्वप्र-

धानकर्म इत्याहुः (श० प्र० पृ० ९८) । एतत्तु पूर्वे ( ६४ पृष्ठे ) प्रपञ्चितम्

तत्र द्रष्टव्यम् । प्रकारान्तरेण ईप्सिततमं कर्म त्रिविधं भवति । प्राप्यम्

प्रकृतिविकृती च । तत्राद्यम् क्रियाजन्यफलशालि । यथा ग्रामं गच्छ-

तीत्यादौ गम्यादेर्प्रामादि । घटं जानातीत्यादौ ज्ञानादेर्विषयश्च । द्वितीयं

च क्रियया वस्स्वन्तरनिष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्त्वरूपो विकारो

निर्वाह्यते तत् । यथा तण्डुलानोदनं पचतीत्यादौ पाकादेस्तण्डुलादि ।

पुष्पाणि माल्यं करोति काशान्कटं करोति इत्यादौ कृतेश्च पुष्पकाशादि ।

तृतीयं च क्रियया निष्पाद्यं यत् तत् । यथा पाकादेरोदनादि । यथा वा

कृतेः माल्यादि कटादि चेति । तत्र विकृतिरूपं कर्म प्रकृतेरसमभिव्या-
भाववि-

हारस्थले ओदनं पचतीत्यादौ निर्व॑र्त्यमित्युच्यते । तत्रोक्तम् सती वा-
• वि

वि[^१]
द्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यत्वं

प्रचक्षते ॥ इति । तदर्थश्च यस्य विकृतिकर्मणः नाश्रीयते न प्रयुज्यते
डुडुलादिरूप
शिष्टतदसत्त्वम् ओदनादिरूपकर्मान्तरनिष्पाद कंक्रियातो निर्वह

इति बोध्यम् । अत्रेत्थमन्वयः । तण्डुलानोदनं पचतीत्यादौ प्रकृतिक-
मोत्तरद्वितीयायाः
नमित्यत्र तण्डुलान् दिरुपधर्मिनाशादेव पुर्वभाववि
शिष्टतदसत्त्वम् ओदनादिरूपकर्मान्तरनिष्पाद कंक्रियातो निर्वह
त्यत्रत्यायाः नाशकत्वमर्थःति बोध्यम् । अत्रेत्थमन्वयः । तण्डुलानोदनं पचतीत्यादौ प्रकृतिक-
मोत्तरद्वितीयायाः तण्डुलान् इत्यत्रत्यायाः नाशकत्वमर्थः । तण्डुला
द्यन्वितं

नाशकत्वं च पाकेन्वेति । विकृतिकर्मोत्तरद्वितीयायाश्च ओदनम् इत्यत्रत्यायाः

नाशे चोत्पत्तेः प्रयोजकत्वम् उद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो

उत्पादकत्वमर्थः । ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेन्वयः ।

भासते । तथा च ओदनोत्पादको यस्तण्डुलनाशकः पाकः तदनुकूल-

कृतिमान् इति तण्डुलानोदनं पचतीति वाक्याद्बोधः । एवं डु

करोति काष्ठं भस्म करोति दुग्धं दधि करोति इत्यादावपि प्रकृतिकर्मो-

त्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते । विकृतिकर्मोत्तर द्वितीयया च

विषयता विशेष उत्पादकत्वं वा मिलितं वा कृतौ बोध्यते । अत्र तण्डुलना-

 
[^
] अविद्यमाना इति पदच्छेदः ।

२७ न्या० को०