This page has not been fully proofread.

२०८
 
न्यायकोशः ।
 
त्वात् देवदत्तो विहगश्च स्वात्मानं गच्छति प्रयाति च इति प्रयोगापत्तिः ।
तद्वारणाय परसमवेतक्रियाजन्यत्वम् क्रियाजन्यफले ( मतभेदेन धात्वर्थ-
• तावच्छेदकफले वा ) विशेषणत्वेन निवेश्यम् । इत्थं च द्वितीयादे
क्रियान्वयि परसमवेतत्वमप्यर्थः । परत्वं च स्वप्रकृत्यर्थापेक्षया । स्वपदेन
द्वितीया गृह्यते । इदं च कर्मसामान्यलक्षणम् इति ज्ञेयम् । अत्र प्राशे
नैयायिकाः क्रियाजन्यफलशालि कर्मेत्याहुः । नव्यास्तु धात्वर्थतावच्छे-
दकफलशालि कर्मेति प्राहुः ( ग० व्यु० का० २ पृ० ३६-- ३८, का०
४ पृ० ९३ ) । फलशालित्वं च फलानुयोगित्वम् । [ ग ] फलाम,
यतयेष्टम् ( ग० व्यु० का० ४ पृ० ९३) घ ] शशधरादयस्तु
कारणव्यापारविषयः कर्मेव्याहु ( चि० १) ( का० व्या० पृ० ३) ।
• यथा व्रीहीन्प्रोक्षतीत्यादौ ब्रीहिः कर्म ( न्या० सि० दी० पृ० १९) ।
कर्म ( त० प्र० ) । यथा भाविनं घटं जानातीत्यादौ घटः कर्म
यथा वा चक्षुषा घटं जानातीत्यादी घटः कर्म । कचित् विषयः
(गौणम्) । यथा वा मातुः स्मरतीत्यादौ माता कर्म ( म०प्र०
पृ० ४, ६ ) । अत्रेदं बोध्यम् । नैयायिकमते सविषयार्थकधातुलम
● भिव्याहारे विषयत्वात्मकं गौणं कर्मत्वम् कर्तुरीप्सिततमं कर्म ( पा० स० )
१।४।४९) इत्यनेन बोध्यते । तथा च घटविषयताशालिज्ञानाश्रय
 
[
 
.
 
तावान् मातृविषयकस्मरणवान् इति बोधः । वैयाकरणमते तु
 
कर्मत्वं बोध्यते नतु गौणम् । तथा च व्यापारमुख्यविशेष्यक
ज्ञानानुकूलव्यापारस्य स्मरणानुकूलव्यापारस्य च धात्व
सर्वत्र बोधः इति । दिवाकरस्तु संस्कारावच्छिन्नमेव ज्ञानं जानात्सर्य
इति उक्तस्थले मुख्यमेव कर्मत्वम् इत्याह ( श० प्र० पृ० १०१)//
 
क्वचित् प्रतियोगि कर्म । यथा घटं नाशयतीत्यादौ घटः
 
कर्मति
 
तु
 
( का० व्या० पृ० ३) । कर्म द्विविधम् । प्रधानकर्म अप्रचा-
नकर्म चेति । तत्राद्यम् गां दोग्धि पय इत्यादौ पयः । द्वितीयं
• तत्रैव गौः इति ( ल० म० सुब० पृ० ९१ ) । अत्र गोरपादान-
त्वाविवक्षायां अकथितं च (पा० सू० ११४/५१ ) इत्यनेन कर्मत्वम् /
 

मुख्यमेव