2023-10-22 16:08:40 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
मत्त्वम् ( त० व० परि०
 
१६ पृ० २४० ) ( वै० उ० १११११७ )

इत्यादि बोध्यम् । संयोग एव कर्मेति भूषणमतम् ( प्र० प्र० ) । भूषणम

संयोगापेक्षया कर्मणोतिरिक्तत्वं नास्तीति विज्ञेयम् ( दि० १ पृ० १९) ।

न्यायवैशेषिकनये कर्म पञ्चविधम् । उत्क्षेपणम् अपक्षेपणम् आकुञ्चनम्

प्रसारणम् गमनं चेति (बै० ११११७ ) ( त० कौ० १ पृ० १ )

( त० सं० ) ( भा०प० श्लो० ६ ) । गमनलक्षणं चोत्क्षेपणादिचतु-

ष्टय भिन्नत्वे सति कर्मत्वव्याप्यजातिमत्त्वम् ( वै० उ० १११।७) । तच्च

गमनं बहुविधम् भ्रमणम् रेचनम् स्पन्दनम् ऊर्ध्वज्वलनम् तिर्यग्

मनम् इति ( भा० प० १ श्लो० ७ ) । भ्रमणादिप्रकार: शिक्षिताश्व-

गत्यादौ प्रसिद्ध इति श्रूयते । भ्रमणादिषु गमनत्व जातेस्त्वनियत दिग्देश-

संयोगविभागासमवायिकारणत्वमेव व्यञ्जकम् इति ज्ञेयम् ( वै० उ०

१ । १ ।७ ) ( वै० वि० १ । १।७ ) । उत्क्षेपणादीनां पञ्चानामपि कर्मत्व-

( संबन्ध: एकद्रव्यवृत्तित्वम् क्षणिकत्वम् मूर्तद्रव्यवृत्तित्वम् अगुणवत्त्वम्

गुरुत्वद्रवत्व प्रयत्न संयोगजन्यत्वम् स्वकार्यसंयोगविरोधित्वम् संयोगव

निरपेक्षकारणत्वम् असमवायिकारणत्वम् स्वपराश्रय समवेतकार्यारम्भ

च । वस्तुतः कर्मैकविधमेव निष्क्रमणत्व प्रवेश नत्वा दिव दुत्क्षेपणत्वादे-

जतित्वाभावेन मेदकत्वाभावात् इति विज्ञेयम् (प० मा० ) । २ क्रियते

फलार्थिभिरिति कर्म धर्माधर्मात्मकं बीजप्रवाह रूपेणानादि (०

सं० पृ० १८८ शैव० ) । यथा कर्मणैव हि संसिद्धिमास्थिता जनकादयः

(गीता ३१२० ) इत्यादौ । कमोणि षट् शान्तिकरणम् वशीकरण

स्तम्भनम् विद्वेषः उच्चाटनम् मारणं चेति । एते षट् प्रयोगास्तवाद्यक्ताः /

यजनम् याजनम् अध्ययनम् अध्यापनम् दानम् प्रतिग्रहश्चेति एतानि

कपालभातिश्चैतानि षट् कर्माणि समाचरेत् ॥ इत्यनेनोक्तानि शुद्धिकराणि

ब्राह्मणस्य षट् कमोणि । धौतिर्वस्तिस्तथा नेतिनलिकी त्राटकस्तथा ।

षट् कर्माणि हठयोगाङ्गानि ( वाच० ) । केचित्त कर्म त्रिविधम् "

काम्यं नित्यकाम्यं चेति । तत्र केवलं नित्यं संध्यावन्दनादि । केवलं
काम्यं यागादि । नित्यकाम्यं तु एकादशीव्रतादीत्याहुः । एतद्वतस्य करणे
काम्यं नित्यकाम्यं चेति । तत्र केवलं नित्यं संध्यावन्दनादि । केव
 
२०६