न्यायकोशः /26
This page has not been fully proofread.
२४
ग्रन्थकच्चरितं नाम द्वितीय उपोद्वातः ।
नस्य त्वध्यायपञ्चकम् । प्रत्यध्यायमाह्निकद्वयम् । पञ्चाध्याय्याः सूत्राणां संख्या च
सप्तत्रिंशदधिकपञ्चशतानि ( ५३७ ) इति । एनं महर्षिगौतमं गोतमनामानं
केचन मन्यन्ते । अन्ये तु – 'नैयायिकः अक्षपादः अक्षचरणः प्रशस्त -
पादः प्रशस्तचरणश्च' इति महर्षेर्गौतमस्यैव नामभिदाः सन्ति इति मन्यन्ते ।
( २ ) महर्षि कणादः कश्यपगोत्रजः 'उलूकः' इति 'औलूक्य: '
इति चाख्यायते । मिथिलादेशे तस्य निवासस्थानम् । योगाचारविभूया
कालिकत्वमेव' इत्याहुः । चन्द्रकान्ततर्कालंकारस्तु – 'सांख्यदर्शनाविष्कर्तुः कपिलस्यैव
( नास्तिककपिलस्य ) दर्शनकारेषु प्राचीनतमत्वम् आदिपतञ्जलेस्तत्परजत्वम् आत्रे-
यस्य काशकृत्स्नेश्च ततोऽवरजत्वम् कणभक्षाक्षचरणपाराशर्यजैमिनीनां ततोऽप्यर्वाचीन
त्वम्' इत्याह । तदुभयकथनमतीवाविचारतरम् । ननु 'वेदान्तसूत्रादौ " एतेन योगः
प्रत्युक्तः" इत्यादिना योगमतखण्डनदर्शनात् योगसूत्रानन्तरमेव वेदान्तसूत्रम् उपनि-
षदादौ सांख्यकपिलमतप्रतिपादनात् सांख्यसूत्रानन्तरमेवोपनिषदाद्युत्पत्तिश्च' इति
चेन्न । न ह्युपनिषदादौ प्रसिद्धाः कपिलवादरायणजैमिन्यादय आधुनिकषदसूत्र कर्तारो
भवितुमर्हन्ति । "एतेन योगः प्रत्युक्तः" इत्यादिसूत्राणि तु अनादिसिद्धयोगसांख्यबौद्ध-
चार्वाकादिमतखण्डनपराण्येव न त्वर्वाचीनसांख्ययोगादिसूत्र-बौद्धचार्वाकादिप्रणीतग्रन्थ-
खण्डनपराणि इति । एतच्च 'सांख्य' 'योग' 'दर्शन' इत्यादितत्तच्छन्दव्याख्यानेषु संक्षे-
पतः प्रदर्शितमेवेत्यत्रैव विरम्यते । बौद्धः शाक्यः । शाक्यमतं तु ख्रिस्तमतात्पूर्व (५८८)
वर्षेऽभूत् । शाक्यमुनेर्जन्मतः पूर्व वाल्मीकि रामायणलेखनम् । तत्र किष्किन्धाकाण्डे
( १८, ३०, ३१, ३२ ) मनुवचनोतिदर्शनात (८ । ३१६- ३१८) मनुस्मृतेस्तत्पू-
वैकालिकत्वं गम्यते । मनुसंहिता तु ख्रिस्तजन्मतः पूर्वं ( ९ ) नवशताब्यामभवत् ।
न्यायवैशेषिकादिषट्सूत्रानन्तरं मनुसंहिताभवत् इत्याहुः ।
२ अयं च कणभक्षणेन तपश्चरणादुन्छेन वर्तनाच 'कणादः' इति प्रसिद्ध्यति ।
३ अत्रेतियम् – तपस्विने कणादमुनये खयमीश्वर उलूकरूपधारी प्रत्यक्षीभूय
पदार्थषकमुपदिदेश । तदनु स महर्षिर्लोकानुकम्पया वैशेषिकसूत्राणि चकार । तेन
तदर्शनस्य 'औलूक्यदर्शनम्' इति नामान्तरम् । अत्र केचिद्वदन्ति – 'सोऽयं मुनि-
महाभारते भीष्मस्तवराजे उलूकनाम्न उल्लेखान्महाभारतादपि पूर्वकालिकः । किं
च–"न वयं षद्रपदार्थवादिनो वैशेषिकादिवत्" इति सांख्यसूत्रादप्यतिप्राचीनः ।
एवम् - "महद्दीर्धवद्धा हवपरिमण्डलाभ्याम्" इति ब्रह्मसूत्रपर्यालोचनया वेदान्तदर्शना-
दप्येतद्दर्शन ( वैशेषिकदर्शनम् ) प्राचीनम् । 'शब्दानामुत्पत्तिविनाशवत्त्वम्' इति का -
णाद न्यायर्शनतिद्धान्तः । स च "कर्मैके तत्र दर्शनात्" इत्यादिसूत्रैरुद्धुल महता
यत्नेन जैमिनिना खण्डितः इति मीमांसातोऽपि प्राचीनत्वम् । रावणेनापि भाष्यमस्य
दर्शनस्योपरि रचितमिति रत्नप्रभादौ दर्शितम् इति लङ्कापुरीस्थरावणादपि प्राचीनत्वम्।