This page has not been fully proofread.

न्यायकोशः ।
 
२०५
 
वशात्सर्वेषां कर्तृत्वं हरिणोक्तम् इति ( बाच० ) ( ल० म० सुब०
पृ० ८४ ) । अनुकूलकृतिमदन्तःकरणप्रकृतित्वं कर्तृत्वमिति सांख्या
आहुः । न्यायनये कर्तत्वं द्विविधम् मुख्यं गौणं चेति । तत्राद्यं
कृतिमत्त्वम् । द्वितीयम् आश्रयत्वप्रतियोगित्वादि ।
कर्म–१ ( पदार्थः ) [ क ] एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारण-
मिति कर्मलक्षणम् (बै० १११११७) । अत्र एकद्रव्यत्वं च एकमात्र-
मूर्तसमवाधिकारणकत्वम् ( वै० उ० २१११२१ ) । मूर्तमात्रसमवेतत्वं
वा (वै० वि० २१ २१ ) । संयोगेत्यादेः संयोगविभागयोर्निर-
पेक्षकारणमित्यर्थः
संयोगविभागयोः प्रत्येकमेव कारणत्वम् न
 
मिलितयोः ( त० व० पृ० २४० ) । कर्म च संयोगविभागयोः
स्वानन्तरोत्पन्नभावनैरपेक्ष्येण कारणम् (वै० वि० ११ १२ ११७) (मु०
गु० पृ० १९८) । अत्र निरपेक्षत्वं च खोत्पस्यनन्तरोत्पत्तिकान-
पेक्षत्वम् । पूर्वसंयोगध्वंसस्तु स्वोत्पत्त्यनन्तरानुत्पत्तिक एव । अभाव-
वेन तस्याद्यक्षणसंबन्धाभावात् (वै० उ० १११११७ ) । तच्च कर्म
• मूर्तद्रव्यमासमवेतम् अनित्यमेव । उत्तरसंयोगात्
• नश्यति इति ज्ञेयम् ( त० कौ० पृ० २० ) । तथाहि प्रथमं द्रव्ये
कर्मोत्पद्यते । ततो विभागः । ततः पूर्वसंयोगनाशः । तत उत्तरदेश-
• संयोगः द्रव्यनाशश्च । ततः कर्मनाशः इति । कर्म पञ्चविधम् । ऊर्ध्वं
चाघश्चाभिमुखं तिर्यग्विष्वगिति क्रमात् । तानि पञ्चापि कर्माणि दश
संयोगभेदतः ॥ इति ( ता० र० श्लो० ५२) । [ख ] चलनात्म-
कम् ( त० सं० ) । संयोगविभागानुकूलमित्यर्थ: ( वाक्य पृ० २२) ।
[ग] संयोगभिन्नत्वे सति संयोगासमवायिकारणम् ( त० दी० १
पृ० ६ ) । [घ ] कर्मत्वजातिमत् ( त० दी० १ पृ० ६ ) ( त०
० १ पृ० १ ) । तल्लक्षणं तु विभागासमवायिकारणत्वे सति
संयोगहेतुत्वम् (दि० गु० पृ० १९८) । नित्यावृत्तिसत्तासाक्षाद्व्याप्य
• जातिरूपं कर्मत्वम् (वै० उ० ११ १/१७ ) । नित्यावृत्तिपदार्थविभाज-
कोपाधिमत्त्वम् (ल० व० ) । अनेकाश्रितावृत्तिसत्तासाक्षाद्व्याप्यजाति-
कौ ०