This page has not been fully proofread.

२०४
 
न्यायकोशः ।
 
व्या० पृ० २ ) । तन्मते अचेतनकाष्ठादीनामपि मुख्यं कर्तृत्वमिष्टमेव इति
विज्ञेयम् । इदमत्रावधेयम् । कारककर्मादिपदवत्कर्तृपदेपि कृधातुः
र्थक एव अचेतनसाधारण्याय ग्राह्यः । आश्रयत्वमिह तत्तदाख्यातार्थद्वारा ।
तथा च यगाद्यसमभिव्याहृताख्यातेन यद्धात्वर्थान्वितयद्धर्मवत्त्वं बोभ्यते
• तद्धात्वर्थनिरूपितधर्मवत्त्वं तद्धात्वर्थकर्तृत्वम् । यथा पचतीत्यादौ पाकाय
 
क्रिया-
नुकूलव्यापारवत्त्वम् जानातीत्यादौ ज्ञानाद्याश्रयत्वम् नश्यतीत्यादौ नाश-
प्रतियोगित्वम् इति । चैत्रेण पच्यत इत्यादौ पाकजन्य फलाश्रयत्ववारणाय ।
यगाद्यसमभिव्याहृतेति । अत्र चैत्रादेः कर्तृत्वं पचतीत्याख्यातबोभ्यं
धर्ममादायैवेति ज्ञेयम् ( का० व्या० पृ० २) । [घ ] उपादान-
• गोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । यथा ईश्वरस्य द्व्यणुकादिकर्तुलन
( त० दी० १ आत्म० पृ० ११ ) । यथा वा कुलालस्य घटकर्तृत्वम्
 
इदं च प्राचीननैयायिकमतानुसारि मुख्यं कर्तृत्वम् । [ङ ] इतर-
कारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वम् ( सर्व० सं० पृ० २५४ ।
 
अक्ष० ) । यथा चैत्र ग्रामं गच्छतीत्यादौ चैत्रस्य कर्तृत्वम् ।
क्वचित् व्यापाराश्रयत्वम् । यथा रथो गच्छतीत्यादौ रथादेः कर्तृत्वम् /
क्वचित् प्रतियोगित्वम् । यथा घटो नश्यतीत्यादौ घटस्य कर्तृत्वम् ।
क्वचित् कृत्यवच्छेदकत्वम् । यथा शरीरस्य कर्तृत्वम् (गौ० वृ० ३/१/६) //
क्वचिदित्येवमुक्तानीमानि त्रीणि सर्वेषां मते गौणानि कर्तृत्वानि इति
विज्ञेयम् । शाब्दिकास्तु कर्तृप्रत्यय ( शपश्यनादिप्रत्यय-) समभिव्याद्भुत /
धातूपात्तप्रधानीभूतव्यापाराश्रयत्वम् । अथवा कर्तृसंज्ञाबोधितकर्तृत्वशक्ति /
 
मत्त्वम् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रस्य कर्तृत्वम् (ल
 
ल०म०
 
• सुब० पृ० ९५ ) इति वदन्ति । सा शक्तिश्च कर्तृप्रत्ययसमभिव्याहारे
•व्यापारतावच्छेदकसंबन्धेन तद्धात्वर्थनिष्ठविशेष्यता निरूपितप्रकारताना-/
करणाधिकरणकर्मणामेव विवक्षया कर्तृत्वमिति नापादानसंप्रदानयो
श्रयतद्वात्वर्थाश्रयत्वम् ( ल० म० सुब० पृ० ९५ ) । अत्रेदं बोध्यम //
कर्तृत्वमिति महाभाष्यकाराः । उत्पत्तिमात्रे कर्तृत्वं सर्वत्रैवाति कारके /
 
●व्यापारमेदापेक्षायां करणत्वादिसंभवः ॥ इत्यनया कारिकया
 
विवक्षा