2023-10-28 17:58:42 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२०३
 
न्यायकोशः ।
 
घातकर्तेति मनुः । अष्टविधः कर्तेत्यन्ये । तथाहि अनुमन्ता विश-

सिता नियन्ता क्रयविक्रयी। संस्कर्ता चोपहर्ता च षडेते घातकाः

स्मृताः ॥ इति । अत्र चतुर्थचरणे खादको घातकस्तथा इति पाठा-

दष्टानां कर्तृत्वं बोध्यम् । त्रिधैव ज्ञायते कर्ता विशेषेण क्रियां प्रति ।

योग्यत्वप्रतिषिद्धत्वविशेषणपदान्वयैः ॥ इति त्रिविधः कर्तेति भट्ट-

मीमांसकाः । सात्त्विकराजसतामसभेदेन त्रिविधः कर्तेति वेदान्तिनः

(गीता १८/२६ - २८ ) ( वाच० ) ।
 
-
 
कर्तृत्वम् -

 
<कर्तृत्वम्>
(कारकम् ) । कर्तृशब्दोवयववृत्तिलभ्ये कृत्याश्रये यौगिकः ।

[क] सविकरणेन यद्धातुनोपस्थाप्यो यादृशार्थस्तत्तता खोपस्थाप्य-

यादृशानुभावयितुं शक्यः तद्धातूपस्थाप्यस्य तस्य तदेव कर्तृत्वम् ।

यथा पचति जानातीत्यादौ । अत्र स्वोपस्थाप्यकृत्याश्रयत्वादौ धातूपस्था-

प्यस्य पाकबुद्ध्यादेरन्वयः पचाद्युत्तरतिङा बोध्यत इति पाकस्य यत्नवत्त्वं

ज्ञानस्याश्रयत्वं च कर्तृत्वम् । एवं नश्यतीत्यत्र नाशस्य प्रतियोगित्वम् ।

प्रतिबिम्बत इत्यत्र भ्रमात्मनः प्रतिबिम्बस्य प्रकारत्वमेव कर्तृत्वम् ।

कर्मत्वादी धातुनोपस्थाप्योर्थस्तिङानुभाव्योपि न विकरणाक्तेन इति न

तत्र प्रसङ्गः । इदं कर्तृत्वं च अत्ति जुहोतीत्यादावण्यदायुत्तरं लुप्तस्यैव

भोजनकर्तृत्वादेरवगम इति त
भिन्नस्य
बोध्यम् ( श० प्र० पृ० १०३ ) । [ख ] यगन्तभिन्नधातूपस्थाप्य

याशार्थप्रकारकयदर्थधर्मिकान्वयबोधं प्रति लटः सामर्थ्यम् । स एवार्थो

धातूपस्थाप्यतदर्थस्य कर्तृत्वम् । इदं कर्तृत्वं चात्ति जुहोतीत्यादौ लुप्तस्य

वाप्रतिधापि भवति इति मताभिप्रायेण बोध्यम् । पच्यते

तण्डुलः इत्यादी धातोरर्थवत्तया स्वार्थकर्मत्वं लटानुभाव्यमपि न यगन्त-

। पक्ष्यते तण्डुल इत्यादौ तु तादृशस्य धातोरर्थवत्तया तिढैव

स्वार्थ: कर्मत्वमनुभाव्यते न तद्विशेषेण लटा इति तयुदासः ( श० प्र०

पृ० १०४ ) । [ग] क्रियायाः कृतेर्वा समवायित्वम् (चि० १, ४) ।

र मुख्यं कर्तृत्वम् । तन्मते अचेतने काष्ठा दौ

कर्तृपदप्रयोगस्तु गौणः । क्रियाश्रयत्वं कर्तृत्वमिति वैयाकरणाः (काo
 
भिन्नस्य