This page has not been fully proofread.

२०३
 
न्यायकोशः ।
 
घातकर्तेति मनुः । अष्टविधः कर्तेत्यन्ये । तथाहि अनुमन्ता विश-
सिता नियन्ता क्रयविक्रयी। संस्कर्ता चोपहर्ता च षडेते घातकाः
स्मृताः ॥ इति । अत्र चतुर्थचरणे खादको घातकस्तथा इति पाठा-
दष्टानां कर्तृत्वं बोध्यम् । त्रिधैव ज्ञायते कर्ता विशेषेण क्रियां प्रति ।
योग्यत्वप्रतिषिद्धत्वविशेषणपदान्वयैः ॥ इति त्रिविधः कर्तेति भट्ट-
मीमांसकाः । सात्त्विकराजसतामसभेदेन त्रिविधः कर्तेति वेदान्तिनः
(गीता १८/२६ - २८ ) ( वाच० ) ।
 
-
 
कर्तृत्वम् - (कारकम् ) । कर्तृशब्दोवयववृत्तिलभ्ये कृत्याश्रये यौगिकः ।
[क] सविकरणेन यद्धातुनोपस्थाप्यो यादृशार्थस्तत्तता खोपस्थाप्य-
यादृशानुभावयितुं शक्यः तद्धातूपस्थाप्यस्य तस्य तदेव कर्तृत्वम् ।
• यथा पचति जानातीत्यादौ । अत्र स्वोपस्थाप्यकृत्याश्रयत्वादौ धातूपस्था-
प्यस्य पाकबुद्ध्यादेरन्वयः पचाद्युत्तरतिङा बोध्यत इति पाकस्य यत्नवत्त्वं
ज्ञानस्याश्रयत्वं च कर्तृत्वम् । एवं नश्यतीत्यत्र नाशस्य प्रतियोगित्वम् ।
• प्रतिबिम्बत इत्यत्र भ्रमात्मनः प्रतिबिम्बस्य प्रकारत्वमेव कर्तृत्वम् ।
• कर्मत्वादी धातुनोपस्थाप्योर्थस्तिङानुभाव्योपि न विकरणाक्तेन इति न
तत्र प्रसङ्गः । इदं कर्तृत्वं च अत्ति जुहोतीत्यादावण्यदायुत्तरं लुप्तस्यैव
● भोजनकर्तृत्वादेरवगम इति त
बोध्यम् ( श० प्र० पृ० १०३ ) । [ख ] यगन्तभिन्नधातूपस्थाप्य
•याशार्थप्रकारकयदर्थधर्मिकान्वयबोधं प्रति लटः सामर्थ्यम् । स एवार्थो
धातूपस्थाप्यतदर्थस्य कर्तृत्वम् । इदं कर्तृत्वं चात्ति जुहोतीत्यादौ लुप्तस्य
वाप्रतिधापि भवति इति मताभिप्रायेण बोध्यम् । पच्यते
तण्डुलः इत्यादी धातोरर्थवत्तया स्वार्थकर्मत्वं लटानुभाव्यमपि न यगन्त-
। पक्ष्यते तण्डुल इत्यादौ तु तादृशस्य धातोरर्थवत्तया तिढैव
स्वार्थ: कर्मत्वमनुभाव्यते न तद्विशेषेण लटा इति तयुदासः ( श० प्र०
पृ० १०४ ) । [ग] क्रियायाः कृतेर्वा समवायित्वम् (चि० १, ४) ।
र मुख्यं कर्तृत्वम् । तन्मते अचेतने काष्ठा दौ
कर्तृपदप्रयोगस्तु गौणः । क्रियाश्रयत्वं कर्तृत्वमिति वैयाकरणाः (काo
 
भिन्नस्य