2023-10-22 11:59:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१९९
 
<कनिष्ठत्वम्>
अल्पतरस्पन्दान्तरितजन्मत्वम् ( दि० गु० ) इति वैशेषिकाः।

कालकृतं संनिकृष्टत्वमित्यर्थः । कालकृतमपरत्वम् (सि० च० ) इति

नैयायिकाः
। यथा दशरथपुत्रस्य लक्ष्मणस्य राममपेक्ष्य कनिष्ठत्वम् ।

 
<
कनिष्ठा>
परिणीतत्वे सति भर्तृन्यूनस्नेहा कनिष्ठेति रसिका आहुः (रसम०)

(वाच ० ) ।
 

 
<
कपालवेधः>
अर्धरात्रेपि केषांचिद्दशम्या वेध इष्यते । अरुणोदयवेलायां

नावकाशो विचारणे ॥ कपालवेध इत्याहुराचार्या ये हरिप्रियाः

(पु० चि० पृ० १४९ ) ।
 

 
<
कपिला>
नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः । युक्ता षष्ठी पुराणज्ञैः

कपिला परिकीर्तिता ॥ (पु० चि० पृ० १०२ ) ।
 
करणम् –

 
<करणम्>
( कारकम् ) [क] स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकम् ।

इदमेव साधकतमम् (ल० मञ्जु० पृ० ३२ ) । साधकतमं करणम्

(पाणि० १९४।४२ ) । अस्यार्थः । क्रियासिद्धौ प्रकृष्टोपकारकं करण-

संज्ञं स्यात् । यद्यापाराव्यवधानेन क्रियानिष्पत्तिस्तत्प्रकृष्टं बोध्यम् ।

यथा रामेण बाणेन हतो वाली । अत्र हि बाणनिष्ठव्यापाराव्यवधानेन

प्राणवियोगरूपक्रियानिष्पत्तेस्तस्य करणसंज्ञा । तदुक्तं हरिणा क्रियायाः

परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा

स्मृतम् ॥ इति । क्रियाया इत्यस्य फलात्मिकाया इत्यर्थः । विवक्ष्यत इत्यनेन

स्थाल्यादीनामपि वैवक्षिक करणत्वं सूचयति । तदप्युक्तम् वस्तुतस्तद-

निर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा

तृतीयया यादृशः स्वार्थोनुभाव्यते स तद्धातूपस्थाप्यतादृशक्रियायाः

दृश्यते यतः ॥ इति । [ख ] सविकरणस्य यद्धातोरुपस्थाप्ययादृशा

करणसंज्ञकं कारकमुच्यते । यथा दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ

( श० प्र० पृ० ८८ ) । [ग] यस्मिन्सति क्रिया भवत्येव तत्

(चि० ४ ) । हेतुकरणयोरयं विशेषः सव्यापारं निर्व्यापार वा द्रव्यो-

त्पादकं यत्स हेतुरेव । तादृशमेव गुणोत्पादकं यत्सोपि हेतुरेव ।