This page has not been fully proofread.

१९८
 
न्यायकोशः ।
 
तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्युपगमसाहित्य नियतस्य तस्य
प्रवर्तयितुमशक्यत्वात् उत कथकाभ्यां प्रवर्तनीयवाग्व्यवहारं प्रति हेतु-
भावात् उत लोकसिद्धत्वात् अथवा तदनभ्युपगमस्य तत्त्वनिर्णय विजयाति -
प्रसञ्जकत्वात् । न तावदाद्यः । तदनभ्युपगच्छतोपि चार्वाक माध्यमिकादे
र्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात् । तस्यैव वा अनिष्पत्ती
भवतस्तन्निरासप्रयासानुपपत्तेः इत्यादि ( वाच० ) । [ख ] तत्त्वनिर्णय-
विजयएतदन्यतरस्वरूपयोग्यो न्यायानुगतवचनसंदर्भः (गौ० दृ०
१।२।१ प्रस्तावना ) । [ ग] वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः
( सर्व० पृ० २३९ अक्ष० ) । [घ ] विचारसमयः (ग० अव०)।
तिस्रः कथा भवन्ति वाद: जल्पः वितण्डा चेति (वात्स्या० १/२/४२)
( गौ० वृ० १ । २।४२) । २ प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां
विदुः इति काव्यज्ञा आहुः ( वाच० ) ।
 
कथाभासः - ( जातिः ) यत्र वादिप्रतिवादिभ्यां परस्परमसद्दूषणमुद्भाव्यते
• अनित्यः प्रयत्नानन्तरीयकत्वादित्यत्र प्रयत्नानन्तरीयकत्वं न शब्दानित्यत्वं
सः । यथा प्रतिषेधेपि समानो दोषः ( गौ० ५ । १ । ३९ ) । शब्दः
• साधयति अनैकान्तिकत्वादिति यो दोषः स त्वत्पक्षेपि तुल्यः प्रयत्नाभि-
• व्यङ्ग्यत्वस्याप्यसाधकत्वादिति ( गौ० वृ० ५/१/३९ ) । अत्र षट्
पक्षाः प्रवर्तन्ते । तथाहि शब्दः अनित्यः प्रयत्नानन्तरीयकत्वादिति
स्थापनावादिनः प्रथमः पक्षः । प्रत्यत्नकार्यानेकत्वात्कार्यसम इति प्रति-
• वादिनो द्वितीयः पक्षः । प्रतिषेधाप्रतिषेधेष्यनैकान्तिकत्वं तुल्य मिति
वादिनस्तृतीयः पक्षः । विप्रतिषेधस्तत्रापि तथैवानैकान्तिकत्वं तत्समान
● दोषोद्भावनं वा चतुर्थः पक्षः ( गौ० वृ० ५/१/४१ ) । प्रतिषेध
सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानप्रसङ्गो मतानुज्ञा ( गौ०
 
५।१।४२ ) इति पञ्चमः पक्षः । स्वपक्षलक्षणापेक्षोपपत्त्यपसंहारे हेतु
निर्देश परपक्षदोषाभ्युपगमात्समानो दोषः (गौ० ५/१/४३ ) इति
 
अपि
 
षष्ठः पक्षः ( गो० वृ० ५/१/४१- ४३ ) । अत्र त्रयः पक्षा
संभवेयुः ( गौ० वृ० ५११४० ) । कथा तस्याः षडङ्गानि प्राहुश्चत्वारि
 
केचन ( ता० २० ) ।