This page has not been fully proofread.

अथ ग्रन्थकृदुद्देशो नाम प्रथम उपोद्धातः ।
 
प्राचीनार्वाचीनन्याय तर्कग्रन्थालोडनाकलनाभ्यां प्रसिद्धतादृशग्रन्थकृता-
मित्थं पूर्वापरीभावक्रमं प्रतीमः – ( १ ) पूर्व महर्षिगौतम आसीत् ( २ )
ततो महर्षिः कणादः ( ३ ) ततो महर्षिर्वात्स्यायन: ( ४ ) ततः प्रशस्त -
पादाचार्य: ( ५ ) तत उद्योतकराचार्यः ( ६ ) ततो वाचस्पतिमिश्रः
( ७ ) ततः शिवादित्यमिश्र : ( व्योमशिवाचार्यः ) ( ८ ) तत उदयना-
चार्य: (९) ततः श्रीधराचार्य: (१०) ततो वल्लभाचार्य: (११)
ततो गङ्गेशोपाध्यायः (१२) ततो वर्धमानोपाध्यायः (१३) ततो
वासुदेवभट्टाचार्यसार्वभौमः ( १४ ) जयदेवमिश्रश्च ( पक्षधरमिश्रः )
( १५ ) ततो रघुनाथतार्किक शिरोमणिः ( १६ ) ततो मथुरानाथतर्क-
वागीशः ( १७ ) ततः कणादापरनामा रघुदेवः ( १८ ) ततः शंकर-
मिश्रः ( १९ ) ततः प्रगल्भः (२०) ततो भवानन्दः (२१) ततो
जगदीश: ( २२ ) ततो गदाधरचक्रवर्ती ( २३ ) भगीरथठकुरव
( २४ ) ततो रुचिदत्तः ( भक्तुनामा ) (२५) ततः केशव मिश्रः (२६)
ततो वरदराजः ( २७ ) ततः पद्मनाभः (२८) ततो जानकीनाथ :
( २९ ) ततो रामभद्रः ( ३० ) विश्वनाथन्यायपञ्चाननश्च ( ३१ ) ततो
रुद्र भट्टाचार्यः ( ३२ ) अन्नंभट्टच इत्यलं विस्तरेण ।
 
अथ ग्रन्थकृञ्चरितं नाम द्वितीय उपोद्वातः ।
 
-
 
इदानीं ग्रन्थकाराणां क्रमेण जन्मस्थितिकालचरितं निरूप्यते -
तत्र (१) महर्षिगौतम आत्रेयः । स च न्यायदर्शनस्य कर्ता । न्यायदर्श-
-
 
१ अत्र प्रसङ्गतः षड्दर्शनानां सूत्राणां क्रमः सर्वग्रन्था कलनात्कथ्यते – 'पूर्व बादरा-
यणीयं ब्रह्ममीमांसादर्शनं संबभूव ततो जैमिनीयं धर्ममीमांसादर्शनम् ततो गौतमं
न्यायदर्शनम् ततः काणादं वैशेषिकदर्शनम् ततः कापिलं सांख्यदर्शनम् ततः
पातञ्जलं योगदर्शनम्' इति क्रमं वयं प्रतीमः । केचित्तु - षण्णां सूत्रकाराणां समान-