This page has not been fully proofread.

न्यायकोशः ।
 
१९३
 
इत्यादौ ग्रहधातोर्ज्ञानमर्थः । द्वितीयाया विषयत्वमर्थः । आख्यातस्य
जनकत्वमर्थः । तथा च रूपविषयकज्ञानजनकं चक्षुः इत्यन्वयबोधः ।
ज्ञानं रजतं गृह्णात्येव इत्यादिप्रयोगो भवत्येव । यदि च न भवति तदा
'ज्ञानेनार्थो
गृह्यत एव इत्यादौ ज्ञानत्वावच्छेदेनार्थप्राहकत्वायोगव्यवच्छे-
दोर्यो वाच्यः इति ज्ञानेन रजतं गृहात एव इत्यादौ ज्ञानत्वावच्छेदेन
रजतत्वप्रकारकत्वा योगव्यवच्छेदबोधस्यासंभवेन तथाविधप्रयोगो न भवति
इति बोध्यम् । रूपं पृथिव्यां वर्तत एव इत्यादौ सप्तम्या निरूपितत्वमर्थः ।
धातोर्वृत्तिरर्थः । आयातस्याश्रयत्वमर्थः । तथा च पृथिवीनिरूपित-
वृत्याश्रयत्वायोगव्यवच्छेदवद्रूपम् इत्यन्वयबोधः । अत्र च रूपत्वसामाना-
करण्यमात्रेणान्वयः इति विज्ञेयम् । रूपेण पृथिवी व्यावर्त्यत एव
इत्यादौ रूपे पृथिवीनिरूपितधात्वर्थव्यावृत्त्ययोगव्यवच्छेदः प्रतीयते ।
11 आत्मनैव ज्ञायते इष्यते क्रियते इत्यादौ आत्मवृत्तित्वायोगव्यवच्छेदः
प्रतीयते । अत्र आत्मपदोत्तरतृतीयाया वृत्तित्वमर्थः । ऋतौ स्वदारान्
गच्छेदेव इत्यादौ सप्तम्या अवच्छेद्यत्वमर्थः । एवार्थश्चायोगव्यवच्छेदः ।
विध्यर्थश्चेष्टसाधनत्वम् । इष्टं च प्रत्यवायाभावरूपम् । द्वितीयार्थः कर्म-
त्वम् । तथा च ऋतुकालावच्छिन्नस्खदार कर्मकामिग मनायोगव्यवच्छेदः
प्रत्यवायाभावसाधनम् इत्यन्वयबोधः । अत्र यस्यायोगव्यवच्छेदः प्रत्यवा-
याभावहेतुत्वेन विधिबोधितः स प्रत्यवायजनकाभावप्रतियोगी इति व्याप्ति-
• स्वीकारेण तादृशाभिगमनाभावस्य प्रत्यवायहेतुत्वसिद्धिः । ननु च ऋतु-
कालावच्छिन्नस्खदार कर्मकामिगमनाभावस्य सामानाधिकरण्येन प्रत्यवाय-
• हेतुत्वं वाच्यम् । तथा च यस्यां कस्यामपि निशि ऋतावभिगन्तुः पुरुषस्य
ऋत्वन्तराभिगमनाभावेपि प्रत्यवायो न स्यात् । एवं नानादारवतः प्रभोः
दारान्तराभिगमनाभावेपि प्रत्यवायो न स्यात् इति चेत् अत्र वदन्ति । तत्त-
तुकालावच्छिन्नतत्तद्दारकर्मकत्वतत्तत्पुरुषकर्तृकत्वएतदुभयाभाववदभिग-
मनसामान्यस्य तत्तत्पुरुषीयतादृशप्रत्यवायं प्रति हेतुता इति विशिष्य
• तेमनम् इत्यादौ भवनपदोत्तरसप्तम्या उत्पत्तिरर्थः । तथा च एतद्भवनो-
पुरुषमेनैव कार्यकारणभावः कल्प्यते इति । इह भवने मैत्रेणैव पक्ष्यते
 
२५ न्या० को