2023-10-22 11:46:23 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१९२
 
न्यायकोशः ।
 
घिकरण्येन सरोजे नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदो बोध्यते
 

( म० प्र० पृ० ७ ) । यद्वा सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते

( वाच० ) । केचित्तु यावत्सरोजनिष्ठात्यन्ताभावप्रतियोगित्वव्यवच्छेदो

नीलभवनकर्तृत्वादौ प्रतीयत इत्याहुः ( प० मा० ) । नव्याः शिरो-

मणिभट्टाचार्यप्रभृतयस्तु सर्वत्रान्ययोगव्यवच्छेदेनैवोपपत्तावयोगव्यव-

च्छेदात्यन्तायोगव्यवच्छेदौ न स्वीकार्यावित्यवीवदन् ( म० प्र० १

पृ० ७-८) । परमप्राचीनमते तु एवकारार्थो द्विविधः । अयोगव्यव

च्छेदः अन्ययोगव्यवच्छेदश्चेति । तत्रायोगव्यवच्छेदो द्विविधः केवला-

योगव्यवच्छेदः अत्यन्तायोगव्यवच्छेदश्च । यत्रान्वयितावच्छेदकसामाना-

करण्यमाणायोगव्यवच्छेदः प्रतीयते यथा नीलं सरोजं भवत्येव

। तत्रात्यन्तायोगव्यवच्छेदपरिभाषा । यत्र चान्वयितावच्छेदकावच्छेदेना-

योगव्यवच्छेदः प्रतीयते यथा शङ्खः पाण्डुर एव इत्यादौ

योगव्यवच्छेदपरिभाषा । अन्ययोगव्यवच्छेदस्तु पार्थ एव

इत्यादावेवकारार्थः । एवम् अन्यान्यपि अन्ययोगव्यवच्छेदस्योदाहरणा

न्यूह्यानि । तत्र जातिमत्येव सत्ता इत्यादौ सत्तापदेन लक्षणया तद

धिकरणत्वमर्थः । तथा च सत्ताधिकरणले जातिमदन्यवृत्तित्वव्यवच्छेदः

प्रतीयते । अथवा जातिमत्येव सत्ता इत्यादौ सप्तम्या निरूपितत्वमर्थः ।

तथा च सत्ता जातिमन्निरूपितसमवायप्रतियोगिनी सत्तासमवाये जाति-

मदन्यानुयोगिकत्वव्यवच्छेदश्च इत्युभयान्वयविषयकसमूहालम्बनबोधः ।

एवकारस्य अयोगव्यवच्छेदार्थकत्वे त्वन्यान्युदाहरणानि । ज्ञानम

निरूपितत्वं द्वितीयार्थः । तथा च ज्ञानम् अर्थनिरूपितविषयित्वा

गृह्णात्येव इत्यादौ ग्रहधातोर्विषयित्वमर्थः । आख्यातस्याश्रयत्वमर्थः ।

श्रयत्ववत् अर्थनिरूपित विषयित्वाश्रयत्वायोगव्यवच्छेदवच्च इत्यन्वयबोधः ।
 
**
 
>
 
तत्र केवला-

अत्र अयोगव्यवच्छेदोन्वयितावच्छेदकज्ञनात्वावच्छेदेन प्रतीयते न तु
सामानाधिकरण्यमात्रेण इति विज्ञेयम् । द्विजो वेदानधीत एव इत्यादी
 
अत्र अयोगव्यवच्छेदोन्वयितावच्छेदकज्ञनात्वावच्छेदेन प्रतीयते न तु
 

द्विजत्वावच्छेदेन वेदकर्मकाभ्ययनकर्तृत्वायोगव्यवच्छेदो बोध्यते । अत
 

एव नरो वेदानधीत एव इत्यादिप्रयोगवारणम् । चक्षू रूपं गृह्णायै