This page has not been fully proofread.

न्यायकोशः ।
 
१९१
 
भावः । तत्प्रतियोगित्वं रूपादिव्यक्तीनामिति लक्षणसमन्वयो बोध्यः ।
अत्र तद्घटाद्यतिरिक्ते तद्रूपव्यक्तीनामसत्त्वेन यत्र यत्र तद्घटा दिभेदस्तत्र
तत्र तद्रूपव्यक्त्याद्यत्यन्ताभावः इति व्याप्तेः सत्त्वात्तादृशरूपादिव्यत्तय-
त्यन्ताभावस्य तादृशान्योन्याभावव्यापकत्वं संभवतीति बोध्यम् । एवं
Dow
रसादावपि लक्षणसमन्वयः स्वयमूह्यः ।
 

 
-
 
एतत् - [क] प्रत्यक्षबुद्धिविषयः ( दि० ४ प० १७९) ( ग० शक्ति०
 
पृ० ११६ ) । यथा एतत् जलमस्ति इति प्रत्यक्षे विषयो जलम् ।
[ख] समीपतरवर्ति वस्तु इति केचिद्वदन्ति ( दि० ४ प० १७९)।
[ग] एतदोर्थश्च लौकिक प्रत्यक्षविषयताविशिष्टम् (ग० शक्ति० टी०
पृ० ११६) । यथा एषोर्भ्यः इति प्रत्यक्षेयस्यैतदर्थता ।
 
-
 
एव – १ एवकारार्थस्तु त्रिविध इति प्राश्चः । तथाहि । विशेषणसंगतः
••विशेष्यसंगतः क्रिया संगतश्चेति त्रिविध एवकारः । तत्राद्ये एवकारार्थः
अयोगव्यवच्छेदः । यथा शङ्खः पाण्डुर एवेत्यादौ । अत्र शङ्खत्वावच्छेदेन
डुवायोगव्यवच्छेद बुध्यते । अथवा विशेष्ये पाण्डु-
व्यवच्छेदो बोध्यते ( म० प्र० १ पृ० ७) । केचित्तु पाण्डुरत्वादौ
शङ्खादिनिष्ठात्यन्ताभावप्रतियोगित्वव्यवच्छेदो बोध्यत इत्याहुः (प० मा०) ।
द्वितीये अन्ययोगव्यवच्छेदः । यथा पार्थ एव धनुर्धर इत्यादौ (नील०
पृ० ४९ ) ( म० प्र० १ पृ० ७ ) । अत्र धनुर्धरे पार्थान्यतादात्म्य-
व्यवच्छेदो बुध्यते । अथवा विशेषणे धनुर्धरे पार्थान्ययोगव्यवच्छेदो
बोध्यते । धनुर्धरपदस्योत्कृष्टधनुर्धरे लक्षणा । तथैव तात्पर्यात् । पा
न्ययोगस्तत्तादात्म्यम् ( म० प्र० १ पृ० ७) । केचित्तु धनुर्धरादि-
(प० मा० ) । यद्वा पार्थान्यस्मिन् प्रशस्तधनुर्धरत्वं व्यवच्छिद्यते
ष्ठान्योन्यभावप्रतियोगित्वव्यवच्छेदः पार्थादौ प्रतीयता:
( वाच ० ) । तृतीये अत्यन्तायोगव्यवच्छेदः । यथा नीलं सरोजं
 
भवत्येवेत्यादौ । अत्र
 
अन्वयितावच्छेद कसरोजत्व सामानाधिकरण्येन
 
• सरोजनीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदो बुध्यते । अथवा संभवाभि-
प्रायके नीलं सरोजं भवत्येव इत्यादौ अन्वयितावच्छेदकसरोजत्वसामाना-