2023-10-22 11:41:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१८९
 
न्यायकोशः ।
 
वाकवाक्यं चेति । तत्राद्यं यथा सोरोदी दित्याद्यर्थवादसमुदायस्य

पदस्थानीयतया विधिपदेनैकवाक्यता । द्वितीयं यथा यत्र प्रत्येकं भिन्न-

भिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकाङ्क्षावशेन महावाक्यार्थबोधकत्वम् तत् ।

यथा दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत इत्यादिवाक्यानां समिधो यजति

इत्यादिवाक्यानां च परस्पराङ्गाङ्गिभावबोधकतयैकवाक्यता ( वाच० ) ।

[ङ] अर्यैकत्वादेकं वाक्यं साकाङ्कं चेहिभागे स्यात् । अस्यार्थः । विभागे

बाक्यघटकपदानां विभागे साकाङ्कमेकपदरहितस्यापरपदस्य शाब्दबोधा-

जनकत्वं तयोरेवार्थैकत्वम् एकफलप्रतिपादकत्वम् । विभागे साकाङ्क्षवे

सत्येकफळप्रतिपादकं यत्तदेकं वाक्यमित्यर्थः (जै० सू० वृ० २।१।४४) ।

२ अविसंवादिवाक्यत्वमेकवाक्यत्वम् । यथा श्रवणकटु नृपाणामेक-

वाक्यं विवः ( रघु० ६/८५) इत्यादौ इति काव्यज्ञा वदन्ति ।

 
<
एकविशेषवाधः>
इतरबाधग्रहवदस्यार्थोनुसंधेयः ।

 
<
एकशेषः>
(वृत्तिः ) व्याकरणशास्त्रसिद्धो वृत्तिविशेषः । एकशेषो द्विविधः

सरूपैकशेषः विरूपैकशेषश्च । तत्र सरूपैकशेषो घटौ घटाः इत्यादौ ।

विरूपैकशेषस्तु वक्रदण्डौ पितरौ श्वशुरौ भ्रातरौ पुत्रौ शिवौ इत्यादौ ।

अत्रायं वैयाकरणानां नियमः यः शिष्यते स

विज्ञेयः । अत्र सरूपाणामेकशेष एकविभक्तौ ( पाणि० ११२/६४ )

इत्यनेन सूत्रेण घटश्च घटश्च घटौ इत्येकशेषो बोध्यः । वक्रदण्डावित्यत्र

विरूपाणामपि समानार्थानामित्येकशेषः । अत्र लक्षणया वक्रदण्डश्च

कुटिलदण्डश्च इति बोधः । विग्रहोप्येवमेव । पितरौ इत्यत्र जनकशरीर-

त्वेन मातापित्रोरवगमाच्छत्त्या पितुर्बोध: । लक्षणया च जनकस्त्रीत्वेन

रूपेण मातुर्बोध: । विभत्तयुपनीतं पुंस्त्वं तु पितर्येवान्वेति इति प्राश्च

आहुः । नव्यास्तु एकयैव लक्षणया पितृत्वमातृत्वाभ्यां बोधकं पितृ-

पदम् इत्याहुः (त० प्र० ख० ४ पृ० ५३ ) । अत्र
माता च पिता
च पितरौ इति विग्रहः । पिता मात्रा (पाणि० ११२/७०) इत्यनेन

सूत्रेणैकशेषो बोध्यः । श्वशुरौ इत्यत्र श्वशुरः श्वश्र्वा (पाणि० १/२/७१)

इत्यनेन सूत्रेणैकशेषो बोध्यः । श्वश्रूश्च श्वशुरश्व इति विग्रहः । अत्र च
 
m
 
0
 
• माता च पिता