2023-10-22 11:40:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
धिकरणभोजनाभावे सति अष्टममुहूर्तोत्तरार्धादिसार्धमुहूर्तात्मकावयवाधि-

करणं भोजनमेकभक्तमिति निष्कर्षः ।
 

 
<
एकमात्रवृत्तिगुणत्वम्>
एकत्वावच्छिन्नवृत्तिकगुणत्वम् ( ल० १० १०

३६ )। इदं चैकैकवृत्तिगुणत्वमित्यप्युच्यते ।
 

 
<
एकमात्रवृत्तित्वम्>
स्वाश्रय निष्ठभेदाप्रतियोग्याश्रयकत्वम् ( राम० १

प० ३५ ) । यथा आकाशत्वस्यैकमात्रवृत्तित्वम् । अत्र भेदश्च व्यासज्य-

वृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वेन विशेषणीयः ( राम० १५० ३५ ) ।
 

स्वप्रतियोगिवृत्तित्वस्वासमानाधिकरण्यएतदुभयसंबन्धेन मेदविशिष्टान्यत्व
 
१८८
 

मिति निष्कर्षः । इदं च आकाशत्वादेर्जातित्वे बाधकम् ।
 

 
<
एकवाक्यत्वम्->
१ [क] विशिष्ठैकार्थप्रतिपादकत्वम् ( ग० २
अव०
पृ० २ ) । निरूप्यनिरूपकभावापन्नविषयताशालिबोधजनकत्व मित्यर्थः ।

यथा देवदत्तो ग्रामं गच्छतीति वाक्यस्यैकवाक्यत्वम् । [ ख ] तत्प्रयोज्य

विषयतया साक्षात्परंपरया वा निरूपिता या विषयता तत्प्रयोजकत्वम्

( ग० व्यु० का० १ पृ० २७ ) । अत्र तत्पदजन्यज्ञाननिरूपितत्वेन

तत्पदप्रयोज्यत्वव्यवहारो विषयतायामिति बोध्यम् । अत्र विशेष्यताद्वय-

निरूपितक प्रकारताशालिज्ञानजनकवाक्ययोरेव एकवाक्यत्वम् इति नियमो

ज्ञेयः ( कृष्ण० ) । [ग] तदुत्थाप्याकाङ्क्षानिवर्तकत्व तन्निवर्तनीया-

प्रतिज्ञादिपञ्च वाक्यैरेकवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते ( चि० २

काङ्क्षोत्थापकत्व एतदन्यतरवत्त्वम् (ग० २ अव० पृ० २ ) । यथा

अव० पृ० ७६ ) इत्यादौ प्रतिज्ञादीनां पञ्चानामवयवानामेकवाक्यत्वम् ।

तदुत्थाप्याकाङ्क्षा निवर्तकत्वं च तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या आकाङ्क्षा

तत्प्रतियोगिकनिवृत्तिजनकज्ञानजनकत्वम् । इदं च हेतूदाहरणादीनामेक-

तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या निवृत्तिः तत्प्रतियोग्याकाडाजनक

वाक्यत्वम् । अत्र तत्पदं प्रतिज्ञापरम् । तन्निवर्तनीयाका होत्थापकत्वं

ज्ञानजनकत्वम् । इदं च प्रतिज्ञादीनामेकवाक्यत्वमित्यवधेयम् । अत्र तु

तत्पदं हेत्वादिपरम् । [घ ] स्वभिन्नत्वस्वानवच्छिन्नत्वस्वसामानाधि
 

करण्यएतत्रितयसंबन्धेन विषयताविशिष्टविषयताशून्यबोध
 
जनकवाक्यत्व -
मित्यस्मग्दुरुभिकुशास्त्रि

 
रणाः प्राहुः । एकवाक्यं द्विविधम् । पदैकवाक्यम्