2023-10-22 11:37:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१८७
 
<एकदेशान्वयः>
समस्तादसमस्ताद्वा पदादुपस्थितस्यार्थस्य घटको योर्थः

तेन सह तादृशपदार्थाघटकपदार्थान्वयः । यथा चैत्रस्य पितेत्यादौ ।

अत्र समस्तादित्यत्र समासः वैयाकरणसंमतानां कृत्तद्धितैकशेषसनाद्यन्ता-

नामवशिष्टानां चतसृणां वृत्तीनामुपलक्षणम् इति ज्ञेयम् । चैत्रस्य

पितेत्यत्र जनकत्वविशिष्टपुंसः पितृपदार्थत्वेन तदेकदेशेन जनकत्वेन सह

चैत्रपदार्थस्य निरूपितत्वसंबन्धेनान्वयादेकदेशान्वयो ज्ञेयः । अत्रेदं

बोध्यम् । पदार्थः पदार्थेनैवान्वेति न तु पदार्थैकदेशेन इति नियमोस्ति।

परंतु ससंबन्धिकस्थल एकदेशेष्यन्वयस्वीकारात्तादृशनियमोपवाद्य एवेति ।

एकस्मिन् दृष्टे श्रुते वा अपरसंबन्धिनः स्मरणं ससंबन्धिकपदार्थः ।

यथा हस्तिहस्तिपकादिरिति ( म० प्र० ४ पृ० ४८ ) । अथवा

नित्यसाकाससंबन्धिकपदार्थः । यथा चैत्रस्य गुरुकुलम् मैत्रस्य दास-
-
 

भात्यादौ गुरुत्वदासत्वादौ चैत्रमैत्रपदार्थयोरन्वयस्य नित्यसाकाङ्क्षत्वेनैक-

देशान्वयः सह्यत एव इति । तथा च चैत्रस्य पितेत्यादावेकदेशान्वयो

युक्त एव ( न्या० म० ४ पृ० १४)।
 
-
 

 
<
एकपदत्वम्->
[क एकार्थविषयकशक्तिनिरूपकत्वम् । यथा राम इति

पदस्यैकपदत्वम् । अत्र व्युत्पत्तिः एकं पदं पदोच्चारणयोग्यकालो यत्र

तस्य भाव इति ( वाच० ) । अत्रार्थनिष्ठमेकत्वं च तदितरावृत्तिस्त

व्यक्तित्वादिरूपोसाधारणधर्म एवेति न काचिदनुपपत्तिरिति । [ख]

शक्तिनिरूप काभाववदुत्तरत्वे सति शक्तिनिरूपकत्वम् । यथा घट इत्यस्यै-
• खण्डत्वं च पदत्वाभाववदुत्तरखण्डकत्वम् ।

कपदत्वम् । [ग अखण्डपदत्वमिति शाब्दिका वदन्ति । अत्रा-

खण्डत्वं च पदत्वाभाववदुत्तरखण्डकत्वम् ।
 
<
एकप्रसरताभङ्गः - >
(दोषः ) एकस्यां वृत्तौ या प्रसरता घटकतया प्रविष्टता ।

अत्र चोद्देश्य विधेयभावाप्रतीतिः ( मी० न्या० पृ० ३७ ) ।

 
<
एकभक्तम्- >
दिनार्धसमयेतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्त-

मतस्तत्स्याद्दिवैव हि ॥ ( पु० चि० हे० स्का० पृ० ४३ ) । न्यूनं

प्रासत्रयेण तु इति चतुर्थचरणे पाठान्तरम् । तदहोरात्रावयवान्तरा-
podupiccantik!
 
WALBEN
 
-